Loading...
ऋग्वेद मण्डल - 9 के सूक्त 103 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 103/ मन्त्र 1
    ऋषिः - द्वितः देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः

    प्र पु॑ना॒नाय॑ वे॒धसे॒ सोमा॑य॒ वच॒ उद्य॑तम् । भृ॒तिं न भ॑रा म॒तिभि॒र्जुजो॑षते ॥

    स्वर सहित पद पाठ

    प्र । पु॒ना॒नाय॑ । वे॒धसे॑ । सोमा॑य । वचः॑ । उत्ऽय॑तम् । भृ॒तिम् । न । भ॒र॒ । म॒तिऽभिः॑ । जुजो॑षते ॥


    स्वर रहित मन्त्र

    प्र पुनानाय वेधसे सोमाय वच उद्यतम् । भृतिं न भरा मतिभिर्जुजोषते ॥

    स्वर रहित पद पाठ

    प्र । पुनानाय । वेधसे । सोमाय । वचः । उत्ऽयतम् । भृतिम् । न । भर । मतिऽभिः । जुजोषते ॥ ९.१०३.१

    ऋग्वेद - मण्डल » 9; सूक्त » 103; मन्त्र » 1
    अष्टक » 7; अध्याय » 5; वर्ग » 6; मन्त्र » 1

    पदार्थः -
    (सोमाय) सर्वोत्पादकाय (वेधसे) जगतः कर्त्रे (पुनानाय) सर्वस्य पावका (जुजोषते) शुभकर्मणि योजकाय परमात्मने (मतिभिः) भक्त्या मम स्तुतिभिः (वचः) वाक् (उद्यतम्) उद्यता भवतु। (भृतिं, न) भृत्यमिव मां स परमात्मा (प्रभर) भरतु ॥१॥

    इस भाष्य को एडिट करें
    Top