Loading...
ऋग्वेद मण्डल - 9 के सूक्त 103 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 103/ मन्त्र 2
    ऋषिः - द्वितः देवता - पवमानः सोमः छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    परि॒ वारा॑ण्य॒व्यया॒ गोभि॑रञ्जा॒नो अ॑र्षति । त्री ष॒धस्था॑ पुना॒नः कृ॑णुते॒ हरि॑: ॥

    स्वर सहित पद पाठ

    परि॑ । वारा॑णि । अ॒व्यया॑ । गोभिः॑ । अ॒ञ्जा॒नः । अ॒र्ष॒ति॒ । त्री । स॒धऽस्था॑ । पु॒ना॒नः । कृ॒णु॒ते॒ । हरिः॑ ॥


    स्वर रहित मन्त्र

    परि वाराण्यव्यया गोभिरञ्जानो अर्षति । त्री षधस्था पुनानः कृणुते हरि: ॥

    स्वर रहित पद पाठ

    परि । वाराणि । अव्यया । गोभिः । अञ्जानः । अर्षति । त्री । सधऽस्था । पुनानः । कृणुते । हरिः ॥ ९.१०३.२

    ऋग्वेद - मण्डल » 9; सूक्त » 103; मन्त्र » 2
    अष्टक » 7; अध्याय » 5; वर्ग » 6; मन्त्र » 2

    पदार्थः -
    (गोभिः, अञ्जानः) अन्तःकरणवृत्तिभिः साक्षात्कृतः परमात्मा (अव्यया) स्वरक्षायुक्तशक्त्या (वाराणि) वरणार्हानि अन्तःकरणानि (पर्यर्षति) प्राप्नोति (त्री, सधस्था) कारणसूक्ष्मस्थूलात्मक- त्रिविधशरीराणि (पुनानः) पवित्रयन् (हरिः) अन्तःकरणस्य मलिवक्षेपादिदोषनाशकः (कृणुते) उपासकमपि पावयति ॥२॥

    इस भाष्य को एडिट करें
    Top