ऋग्वेद - मण्डल 9/ सूक्त 103/ मन्त्र 3
परि॒ कोशं॑ मधु॒श्चुत॑म॒व्यये॒ वारे॑ अर्षति । अ॒भि वाणी॒ॠषी॑णां स॒प्त नू॑षत ॥
स्वर सहित पद पाठपरि॑ । कोश॑म् । म॒धु॒ऽश्चुत॑म् । अ॒व्यये॑ । वारे॑ । अ॒र्ष॒ति॒ । अ॒भि । वाणीः॑ । ऋषी॑णाम् । स॒प्त । नू॒ष॒त॒ ॥
स्वर रहित मन्त्र
परि कोशं मधुश्चुतमव्यये वारे अर्षति । अभि वाणीॠषीणां सप्त नूषत ॥
स्वर रहित पद पाठपरि । कोशम् । मधुऽश्चुतम् । अव्यये । वारे । अर्षति । अभि । वाणीः । ऋषीणाम् । सप्त । नूषत ॥ ९.१०३.३
ऋग्वेद - मण्डल » 9; सूक्त » 103; मन्त्र » 3
अष्टक » 7; अध्याय » 5; वर्ग » 6; मन्त्र » 3
अष्टक » 7; अध्याय » 5; वर्ग » 6; मन्त्र » 3
पदार्थः -
(मधुश्चुतम्) प्रेमरूपमाधुर्यस्रोतः (कोशम्) अन्तःकरणं (अव्यये, वारे) रक्षायुक्तं वरणीयं च तत्र परमात्मा (पर्यर्षति) विराजते (वाणीः, अभि) भक्तिमभिलक्ष्य (ऋषीणाम्, सप्त) ज्ञानेन्द्रियाणां सप्तछिद्रान् (नूषत) अलङ्करोति ॥३॥