Loading...
ऋग्वेद मण्डल - 9 के सूक्त 103 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 103/ मन्त्र 4
    ऋषिः - द्वितः देवता - पवमानः सोमः छन्दः - पादनिचृदुष्णिक् स्वरः - ऋषभः

    परि॑ णे॒ता म॑ती॒नां वि॒श्वदे॑वो॒ अदा॑भ्यः । सोम॑: पुना॒नश्च॒म्वो॑र्विश॒द्धरि॑: ॥

    स्वर सहित पद पाठ

    परि॑ । ने॒ता । म॒ती॒नाम् । वि॒श्वऽदे॑वः । अदा॑भ्यः । सोमः॑ । पु॒ना॒नः । च॒म्वोः॑ । वि॒श॒त् । हरिः॑ ॥


    स्वर रहित मन्त्र

    परि णेता मतीनां विश्वदेवो अदाभ्यः । सोम: पुनानश्चम्वोर्विशद्धरि: ॥

    स्वर रहित पद पाठ

    परि । नेता । मतीनाम् । विश्वऽदेवः । अदाभ्यः । सोमः । पुनानः । चम्वोः । विशत् । हरिः ॥ ९.१०३.४

    ऋग्वेद - मण्डल » 9; सूक्त » 103; मन्त्र » 4
    अष्टक » 7; अध्याय » 5; वर्ग » 6; मन्त्र » 4

    पदार्थः -
    (विश्वदेवः)  अखिलविश्वप्रकाशकः  (अदाभ्यः)  अनभिभाव्यः परमात्मा  (मतीनां,  नेता)  सर्वेषां  बुद्धेर्नेतास्ति  (सोमः) सर्वोत्पादकः (हरिः) परमात्मा (चम्वोः) जीवप्रकृत्योः (परिविशत्)प्रविशति ॥४॥

    इस भाष्य को एडिट करें
    Top