Loading...
ऋग्वेद मण्डल - 9 के सूक्त 103 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 103/ मन्त्र 5
    ऋषिः - द्वितः देवता - पवमानः सोमः छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    परि॒ दैवी॒रनु॑ स्व॒धा इन्द्रे॑ण याहि स॒रथ॑म् । पु॒ना॒नो वा॒घद्वा॒घद्भि॒रम॑र्त्यः ॥

    स्वर सहित पद पाठ

    परि॑ । दैवीः॑ । अनु॑ । स्व॒धाः । इन्द्रे॑ण । या॒हि॒ । स॒ऽरथ॑म् । पु॒ना॒नः । वा॒घत् । वा॒घत्ऽभिः । अम॑र्त्यः ॥


    स्वर रहित मन्त्र

    परि दैवीरनु स्वधा इन्द्रेण याहि सरथम् । पुनानो वाघद्वाघद्भिरमर्त्यः ॥

    स्वर रहित पद पाठ

    परि । दैवीः । अनु । स्वधाः । इन्द्रेण । याहि । सऽरथम् । पुनानः । वाघत् । वाघत्ऽभिः । अमर्त्यः ॥ ९.१०३.५

    ऋग्वेद - मण्डल » 9; सूक्त » 103; मन्त्र » 5
    अष्टक » 7; अध्याय » 5; वर्ग » 6; मन्त्र » 5

    पदार्थः -
    (इन्द्रेण) कर्मयोगिणा  (सरथम्)   प्राप्य (पुनानः) सर्वेषां  पावकःपरमात्मा (स्वधाः)  स्वधया  सृष्टिं कुर्वन्  (दैवीः, अनु) दैव्याः सम्पत्तेरनुकूलं  (परियाहि)  याति  (वाघद्भिः)  वैदिकैश्च  सह (अमर्त्यः) अव्ययः  परमात्मा  (वाघत्) शब्दायमानः स्वप्रकाश्य- प्रकाशकभावरूपयोगेन वैदिकान् पवित्रयति ॥५॥

    इस भाष्य को एडिट करें
    Top