Loading...
ऋग्वेद मण्डल - 9 के सूक्त 103 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 103/ मन्त्र 6
    ऋषिः - द्वितः देवता - पवमानः सोमः छन्दः - विराडुष्निक् स्वरः - ऋषभः

    परि॒ सप्ति॒र्न वा॑ज॒युर्दे॒वो दे॒वेभ्य॑: सु॒तः । व्या॒न॒शिः पव॑मानो॒ वि धा॑वति ॥

    स्वर सहित पद पाठ

    परि॑ । सप्तिः॑ । न । वा॒ज॒ऽयुः । दे॒वः । दे॒वेभ्यः॑ । सु॒तः । वि॒ऽआ॒न॒शिः । पव॑मानः । वि । धा॒व॒ति॒ ॥


    स्वर रहित मन्त्र

    परि सप्तिर्न वाजयुर्देवो देवेभ्य: सुतः । व्यानशिः पवमानो वि धावति ॥

    स्वर रहित पद पाठ

    परि । सप्तिः । न । वाजऽयुः । देवः । देवेभ्यः । सुतः । विऽआनशिः । पवमानः । वि । धावति ॥ ९.१०३.६

    ऋग्वेद - मण्डल » 9; सूक्त » 103; मन्त्र » 6
    अष्टक » 7; अध्याय » 5; वर्ग » 6; मन्त्र » 6

    पदार्थः -
    (देवः) दिव्यस्वरूपः  परमात्मा (देवेभ्यः, सुतः) विद्वद्भ्यः  संस्कृतो यः (वाजयुः)  ऐश्वर्यसम्पन्नश्च (व्यानशिः) सर्वव्यापकः  (पवमानः) पावयिता  स परमात्मा (सप्तिः, न) विद्युदिव (परिधावति) सर्वत्र विराजते ॥६॥

    भावार्थः - इति त्र्युत्तरैकशततमं सूक्तं षष्ठो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top