Loading...
ऋग्वेद मण्डल - 9 के सूक्त 15 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 15/ मन्त्र 2
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता॑तये । यत्रा॒मृता॑स॒ आस॑ते ॥

    स्वर सहित पद पाठ

    ए॒षः । पु॒रु । धि॒या॒ऽय॒ते॒ । बृ॒ह॒ते । दे॒वऽता॑तये । यत्र॑ । अ॒मृता॑सः । आस॑ते ॥


    स्वर रहित मन्त्र

    एष पुरू धियायते बृहते देवतातये । यत्रामृतास आसते ॥

    स्वर रहित पद पाठ

    एषः । पुरु । धियाऽयते । बृहते । देवऽतातये । यत्र । अमृतासः । आसते ॥ ९.१५.२

    ऋग्वेद - मण्डल » 9; सूक्त » 15; मन्त्र » 2
    अष्टक » 6; अध्याय » 8; वर्ग » 5; मन्त्र » 2

    पदार्थः -
    (एषः) असौ परमात्मा (पुरु धियायते) अनन्तविज्ञानानां दातास्ति (बृहते देवतातये) शश्वत् जगति देवत्वं विवर्द्धयिषुः (यत्र) यत् प्राप्य (अमृतासः आसते) अमृतत्वं प्राप्यते ॥२॥

    इस भाष्य को एडिट करें
    Top