ऋग्वेद - मण्डल 9/ सूक्त 30/ मन्त्र 6
सु॒नोता॒ मधु॑मत्तमं॒ सोम॒मिन्द्रा॑य व॒ज्रिणे॑ । चारुं॒ शर्धा॑य मत्स॒रम् ॥
स्वर सहित पद पाठसु॒नोत॑ । मधु॑मत्ऽतमम् । सोम॑म् । इन्द्रा॑य । व॒ज्रिणे॑ । चारु॑म् । शर्धा॑य । म॒त्स॒रम् ॥
स्वर रहित मन्त्र
सुनोता मधुमत्तमं सोममिन्द्राय वज्रिणे । चारुं शर्धाय मत्सरम् ॥
स्वर रहित पद पाठसुनोत । मधुमत्ऽतमम् । सोमम् । इन्द्राय । वज्रिणे । चारुम् । शर्धाय । मत्सरम् ॥ ९.३०.६
ऋग्वेद - मण्डल » 9; सूक्त » 30; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 20; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 20; मन्त्र » 6
पदार्थः -
(वज्रिणे इन्द्राय) वज्रोपेताय कर्मयोगिने (सोमम् सुनोत) सोमरसं समुत्पादय यो रसः (चारुम्) सुन्दरः (शर्धाय मत्सरम्) बलाय हर्षप्रदः (मधुमत्तमम्) स्वादुरस्ति ॥६॥ इति त्रिंशत्तमं सूक्तं विंशो वर्गश्च समाप्तः ॥