ऋग्वेद - मण्डल 9/ सूक्त 43/ मन्त्र 3
पु॒ना॒नो या॑ति हर्य॒तः सोमो॑ गी॒र्भिः परि॑ष्कृतः । विप्र॑स्य॒ मेध्या॑तिथेः ॥
स्वर सहित पद पाठपु॒ना॒नः । या॒ति॒ । ह॒र्य॒तः । सोमः॑ । गीः॒ऽभिः । परि॑ऽकृतः । विप्र॑स्य । मेध्य॑ऽअतिथेः ॥
स्वर रहित मन्त्र
पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः । विप्रस्य मेध्यातिथेः ॥
स्वर रहित पद पाठपुनानः । याति । हर्यतः । सोमः । गीःऽभिः । परिऽकृतः । विप्रस्य । मेध्यऽअतिथेः ॥ ९.४३.३
ऋग्वेद - मण्डल » 9; सूक्त » 43; मन्त्र » 3
अष्टक » 6; अध्याय » 8; वर्ग » 33; मन्त्र » 3
अष्टक » 6; अध्याय » 8; वर्ग » 33; मन्त्र » 3
पदार्थः -
(गीर्भिः परिष्कृतः) वेदवाग्भिः स्तुतः (हर्यतः सोमः) दर्शनीयः परमात्मा (पुनानः) पवित्रयन् (मेध्यातिथेः विप्रस्य) ज्ञानयोगिनो विदुषो हृदये (याति) निवसति ॥३॥