Loading...
ऋग्वेद मण्डल - 9 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 43/ मन्त्र 4
    ऋषिः - मेध्यातिथिः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम सु॒श्रिय॑म् । इन्दो॑ स॒हस्र॑वर्चसम् ॥

    स्वर सहित पद पाठ

    पव॑मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य॑म् । सो॒म॒ । सु॒ऽश्रिय॑म् । इन्दो॒ इति॑ । स॒हस्र॑ऽवर्चसम् ॥


    स्वर रहित मन्त्र

    पवमान विदा रयिमस्मभ्यं सोम सुश्रियम् । इन्दो सहस्रवर्चसम् ॥

    स्वर रहित पद पाठ

    पवमान । विदाः । रयिम् । अस्मभ्यम् । सोम । सुऽश्रियम् । इन्दो इति । सहस्रऽवर्चसम् ॥ ९.४३.४

    ऋग्वेद - मण्डल » 9; सूक्त » 43; मन्त्र » 4
    अष्टक » 6; अध्याय » 8; वर्ग » 33; मन्त्र » 4

    पदार्थः -
    (पवमान) हे सर्वस्य पवितः (इन्दो) प्रकाशमान (सोम) सौम्य परमात्मन् ! त्वं (अस्मभ्यम्) (सहस्रवर्चसम्) विविधदीप्तिमन्तम् (सुश्रियम्) सुशोभं (रयिम्) विभवं (विदाः) प्रापय ॥४॥

    इस भाष्य को एडिट करें
    Top