ऋग्वेद - मण्डल 9/ सूक्त 45/ मन्त्र 2
स नो॑ अर्षा॒भि दू॒त्यं१॒॑ त्वमिन्द्रा॑य तोशसे । दे॒वान्त्सखि॑भ्य॒ आ वर॑म् ॥
स्वर सहित पद पाठसः । नः॒ । अ॒र्ष॒ । अ॒भि । दू॒त्य॑म् । त्वम् । इन्द्रा॑य । तो॒श॒से॒ । दे॒वान् । सखि॑ऽभ्यः॑ । आ । वर॑म् ॥
स्वर रहित मन्त्र
स नो अर्षाभि दूत्यं१ त्वमिन्द्राय तोशसे । देवान्त्सखिभ्य आ वरम् ॥
स्वर रहित पद पाठसः । नः । अर्ष । अभि । दूत्यम् । त्वम् । इन्द्राय । तोशसे । देवान् । सखिऽभ्यः । आ । वरम् ॥ ९.४५.२
ऋग्वेद - मण्डल » 9; सूक्त » 45; मन्त्र » 2
अष्टक » 7; अध्याय » 1; वर्ग » 2; मन्त्र » 2
अष्टक » 7; अध्याय » 1; वर्ग » 2; मन्त्र » 2
पदार्थः -
हे परमात्मन् ! (सः) स त्वम् (नः दूत्यम् अभ्यर्ष) अस्मभ्यं कर्मयोगं प्रदेहि (त्वम् इन्द्राय तोशसे) यतस्त्वं परमैश्वर्यसम्प्राप्तये स्तूयसे अथ च (देवान् सखिभ्यः) सत्कर्मिभ्यो विद्वद्भ्यः (आवरम्) सुष्ठु तन्मनोऽभीष्टं देहि ॥२॥