ऋग्वेद - मण्डल 9/ सूक्त 51/ मन्त्र 4
त्वं हि सो॑म व॒र्धय॑न्त्सु॒तो मदा॑य॒ भूर्ण॑ये । वृष॑न्त्स्तो॒तार॑मू॒तये॑ ॥
स्वर सहित पद पाठत्वम् । हि । सो॒म॒ । व॒र्धय॑न् । सु॒तः । मदा॑य । भूर्ण॑ये । वृष॑न् । स्तो॒तार॑म् । ऊ॒तये॑ ॥
स्वर रहित मन्त्र
त्वं हि सोम वर्धयन्त्सुतो मदाय भूर्णये । वृषन्त्स्तोतारमूतये ॥
स्वर रहित पद पाठत्वम् । हि । सोम । वर्धयन् । सुतः । मदाय । भूर्णये । वृषन् । स्तोतारम् । ऊतये ॥ ९.५१.४
ऋग्वेद - मण्डल » 9; सूक्त » 51; मन्त्र » 4
अष्टक » 7; अध्याय » 1; वर्ग » 8; मन्त्र » 4
अष्टक » 7; अध्याय » 1; वर्ग » 8; मन्त्र » 4
पदार्थः -
(सोम) हे परमात्मन् ! (त्वं हि) त्वं यदा (सुतः) विद्वद्भिः साक्षात्कृतो भवसि तदा (मदाय) आनन्दाय (भूर्णये) दाक्ष्याय (ऊतये) रक्षायै च (स्तोतारम्) उपासकं (वर्धयन्) समृद्धयन् (वृषन्) सर्वान् कामान् पूरयसि ॥४॥