ऋग्वेद - मण्डल 9/ सूक्त 51/ मन्त्र 3
तव॒ त्य इ॑न्दो॒ अन्ध॑सो दे॒वा मधो॒र्व्य॑श्नते । पव॑मानस्य म॒रुत॑: ॥
स्वर सहित पद पाठतव॑ । त्ये । इ॒न्दो॒ इति॑ । अन्ध॑सः । दे॒वाः । मधोः॑ । वि । अ॒श्न॒ते॒ । पव॑मानस्य । म॒रुतः॑ ॥
स्वर रहित मन्त्र
तव त्य इन्दो अन्धसो देवा मधोर्व्यश्नते । पवमानस्य मरुत: ॥
स्वर रहित पद पाठतव । त्ये । इन्दो इति । अन्धसः । देवाः । मधोः । वि । अश्नते । पवमानस्य । मरुतः ॥ ९.५१.३
ऋग्वेद - मण्डल » 9; सूक्त » 51; मन्त्र » 3
अष्टक » 7; अध्याय » 1; वर्ग » 8; मन्त्र » 3
अष्टक » 7; अध्याय » 1; वर्ग » 8; मन्त्र » 3
पदार्थः -
(इन्दो) हे जगद्रक्षक परमात्मन् ! (पवमानस्य) सर्वपवित्रकारकस्य (तव) भवतः (मधोः) मधुरस्य (अन्धसः) रसस्य (देवाः त्ये मरुतः) दिव्यगुणसम्पन्ना विद्वांसः (व्यश्नते) पानं कुर्वन्ति ॥३॥