ऋग्वेद - मण्डल 9/ सूक्त 51/ मन्त्र 2
दि॒वः पी॒यूष॑मुत्त॒मं सोम॒मिन्द्रा॑य व॒ज्रिणे॑ । सु॒नोता॒ मधु॑मत्तमम् ॥
स्वर सहित पद पाठदि॒वः । पी॒यूष॑म् । उ॒त्ऽत॒मम् । सोम॑म् । इन्द्रा॑य । व॒ज्रिणे॑ । सु॒नोत॑ । मधु॑मत्ऽतमम् ॥
स्वर रहित मन्त्र
दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे । सुनोता मधुमत्तमम् ॥
स्वर रहित पद पाठदिवः । पीयूषम् । उत्ऽतमम् । सोमम् । इन्द्राय । वज्रिणे । सुनोत । मधुमत्ऽतमम् ॥ ९.५१.२
ऋग्वेद - मण्डल » 9; सूक्त » 51; मन्त्र » 2
अष्टक » 7; अध्याय » 1; वर्ग » 8; मन्त्र » 2
अष्टक » 7; अध्याय » 1; वर्ग » 8; मन्त्र » 2
पदार्थः -
हे अध्वर्यवः ! यो हि (मधुमत्तमम्) सर्वरसेषूत्तमोऽस्ति (दिवः पीयूषम्) अथ च द्युलोकस्य यदमृतमस्ति, एवं भूतम् (उत्तमम् सोमम्) उत्तमं परमात्मानं (इन्द्राय पातवे) स्वस्य जीवात्मनस्तृप्तये (सुनोत) ध्यानविषयं कुरुत ॥२॥