Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 66/ मन्त्र 2
    ऋषिः - शतं वैखानसाः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी । प्र॒ती॒ची सो॑म त॒स्थतु॑: ॥

    स्वर सहित पद पाठ

    ताभ्य॑म् । विश्व॑स्य । रा॒ज॒सि॒ । ये । प॒व॒मा॒न॒ । धाम॑नी॒ इति॑ । प्र॒ती॒ची इति॑ । सो॒म॒ । त॒स्थतुः॑ ॥


    स्वर रहित मन्त्र

    ताभ्यां विश्वस्य राजसि ये पवमान धामनी । प्रतीची सोम तस्थतु: ॥

    स्वर रहित पद पाठ

    ताभ्यम् । विश्वस्य । राजसि । ये । पवमान । धामनी इति । प्रतीची इति । सोम । तस्थतुः ॥ ९.६६.२

    ऋग्वेद - मण्डल » 9; सूक्त » 66; मन्त्र » 2
    अष्टक » 7; अध्याय » 2; वर्ग » 7; मन्त्र » 2

    पदार्थः -
    (सोम) हे परमेश्वर ! भवान् (ताभ्याम्) कर्मज्ञानाभ्यां (विश्वस्य) समस्तसंसारस्य (राजसि) प्रकाशं करोति (पवमान) सर्वपवित्रयितः परमात्मन् ! (ये धामनी) ज्ञानकर्मणी (प्रतीची) प्राचीने स्तः ते (तस्थतुः) उपजग्मतुः ॥२॥

    इस भाष्य को एडिट करें
    Top