ऋग्वेद - मण्डल 9/ सूक्त 66/ मन्त्र 4
ऋषिः - शतं वैखानसाः
देवता - पवमानः सोमः
छन्दः - विराड्गायत्री
स्वरः - षड्जः
पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा॑नि॒ वार्या॑ । सखा॒ सखि॑भ्य ऊ॒तये॑ ॥
स्वर सहित पद पाठपव॑स्व । ज॒नय॑न् । इषः॑ । अ॒भि । विश्वा॑नि । वार्या॑ । सखा॑ । सखि॑ऽभ्यः । ऊ॒तये॑ ॥
स्वर रहित मन्त्र
पवस्व जनयन्निषोऽभि विश्वानि वार्या । सखा सखिभ्य ऊतये ॥
स्वर रहित पद पाठपवस्व । जनयन् । इषः । अभि । विश्वानि । वार्या । सखा । सखिऽभ्यः । ऊतये ॥ ९.६६.४
ऋग्वेद - मण्डल » 9; सूक्त » 66; मन्त्र » 4
अष्टक » 7; अध्याय » 2; वर्ग » 7; मन्त्र » 4
अष्टक » 7; अध्याय » 2; वर्ग » 7; मन्त्र » 4
पदार्थः -
हे जगदीश्वर ! (विश्वानि) सर्वे पदार्थाः (वार्या) ये वरणीयास्सन्ति (अभि) तान्मह्यमभिदेहि। अथ च (इषः) ऐश्वर्यम् (जनयन्) उत्पादयन् (पवस्व) अस्मान् पवित्रयतु। (सखिभ्यः) मित्राणां (ऊतये) रक्षायै (सखा) मित्रमसि ॥४॥