ऋग्वेद - मण्डल 9/ सूक्त 66/ मन्त्र 5
तव॑ शु॒क्रासो॑ अ॒र्चयो॑ दि॒वस्पृ॒ष्ठे वि त॑न्वते । प॒वित्रं॑ सोम॒ धाम॑भिः ॥
स्वर सहित पद पाठतव॑ । शु॒क्रासः॑ । अ॒र्चयः॑ । दि॒वः । पृ॒ष्ठे । वि । त॒न्व॒ते॒ । प॒वित्र॑म् । सो॒म॒ । धाम॑ऽभिः ॥
स्वर रहित मन्त्र
तव शुक्रासो अर्चयो दिवस्पृष्ठे वि तन्वते । पवित्रं सोम धामभिः ॥
स्वर रहित पद पाठतव । शुक्रासः । अर्चयः । दिवः । पृष्ठे । वि । तन्वते । पवित्रम् । सोम । धामऽभिः ॥ ९.६६.५
ऋग्वेद - मण्डल » 9; सूक्त » 66; मन्त्र » 5
अष्टक » 7; अध्याय » 2; वर्ग » 7; मन्त्र » 5
अष्टक » 7; अध्याय » 2; वर्ग » 7; मन्त्र » 5
पदार्थः -
(सोम) हे परमेश्वर ! (धामभिः) भवान् स्वशक्तिभिः (पवित्रम्) पवित्रोऽस्ति (तव) भवतः (शुक्रासः) बलवत्यः (अर्चयः) प्रकाशोर्मयः (दिवस्पृष्ठे) द्युलोकोपरि (वितन्वते) विस्तृताः सन्ति ॥५॥