ऋग्वेद - मण्डल 9/ सूक्त 70/ मन्त्र 9
ऋषिः - रेनुर्वैश्वामित्रः
देवता - पवमानः सोमः
छन्दः - निचृज्जगती
स्वरः - निषादः
पव॑स्व सोम दे॒ववी॑तये॒ वृषेन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श । पु॒रा नो॑ बा॒धाद्दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा॑ विपृच्छ॒ते ॥
स्वर सहित पद पाठपव॑स्व । सो॒म॒ । दे॒वऽवी॑तये । वृषा॑ । इन्द्र॑स्य । हार्दि॑ । सो॒म॒ऽधान॑म् । आ । वि॒श॒ । पु॒रा । नः॒ । बा॒धात् । दुः॒ऽइ॒ता । अति॑ । पा॒र॒य॒ । क्षे॒त्र॒ऽवित् । हि । दिशः॑ । आह॑ । वि॒ऽपृ॒च्छ॒ते ॥
स्वर रहित मन्त्र
पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानमा विश । पुरा नो बाधाद्दुरिताति पारय क्षेत्रविद्धि दिश आहा विपृच्छते ॥
स्वर रहित पद पाठपवस्व । सोम । देवऽवीतये । वृषा । इन्द्रस्य । हार्दि । सोमऽधानम् । आ । विश । पुरा । नः । बाधात् । दुःऽइता । अति । पारय । क्षेत्रऽवित् । हि । दिशः । आह । विऽपृच्छते ॥ ९.७०.९
ऋग्वेद - मण्डल » 9; सूक्त » 70; मन्त्र » 9
अष्टक » 7; अध्याय » 2; वर्ग » 24; मन्त्र » 4
अष्टक » 7; अध्याय » 2; वर्ग » 24; मन्त्र » 4
पदार्थः -
(सोम) हे जगदीश ! भवान् (देववीतये) यज्ञादिकर्मकरणाय (पवस्व) अस्मान् पवित्रयतु। अथ च (वृषा) आनन्दवर्षको भवान् (इन्द्रस्य) कर्मयोगिनः (सोमधानम्) भवत्स्थितियोग्यं मनः (हार्दि) सर्वप्रियमस्ति तस्मिन् (आ विश) आगत्य प्रविशतु। तथा येन प्रकारेण (क्षेत्रवित्) मार्गज्ञो जनः (विपृच्छते) मार्गपृच्छकाय (दिश आह हि) शुभमार्गमुपदिशति तथा भवान् (नः) अस्माकं (बाधात्) बाधनात् (पुरा) पूर्वमेव (दुरिता) दुरितानि (अति पारय) दूरयतु ॥९॥