Loading...
ऋग्वेद मण्डल - 9 के सूक्त 71 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 71/ मन्त्र 1
    ऋषिः - ऋषभो वैश्वामित्रः देवता - पवमानः सोमः छन्दः - विराड्जगती स्वरः - निषादः

    आ दक्षि॑णा सृज्यते शु॒ष्म्या॒३॒॑सदं॒ वेति॑ द्रु॒हो र॒क्षस॑: पाति॒ जागृ॑विः । हरि॑रोप॒शं कृ॑णुते॒ नभ॒स्पय॑ उप॒स्तिरे॑ च॒म्वो॒३॒॑र्ब्रह्म॑ नि॒र्णिजे॑ ॥

    स्वर सहित पद पाठ

    आ । दक्षि॑णा । सृ॒ज्य॒ते॒ । शु॒ष्मी । आ॒ऽसद॑म् । वेति॑ । द्रु॒हः । र॒क्षसः॑ । पा॒ति॒ । जागृ॑विः । हरिः॑ । ओ॒प॒शम् । कृ॒णु॒ते॒ । नभः॑ । पयः॑ । उ॒प॒ऽस्तिरे॑ । च॒म्वोः॑ । ब्रह्म॑ । निः॒ऽनिजे॑ ॥


    स्वर रहित मन्त्र

    आ दक्षिणा सृज्यते शुष्म्या३सदं वेति द्रुहो रक्षस: पाति जागृविः । हरिरोपशं कृणुते नभस्पय उपस्तिरे चम्वो३र्ब्रह्म निर्णिजे ॥

    स्वर रहित पद पाठ

    आ । दक्षिणा । सृज्यते । शुष्मी । आऽसदम् । वेति । द्रुहः । रक्षसः । पाति । जागृविः । हरिः । ओपशम् । कृणुते । नभः । पयः । उपऽस्तिरे । चम्वोः । ब्रह्म । निःऽनिजे ॥ ९.७१.१

    ऋग्वेद - मण्डल » 9; सूक्त » 71; मन्त्र » 1
    अष्टक » 7; अध्याय » 2; वर्ग » 25; मन्त्र » 1

    पदार्थः -
    (सोमः) परमात्मा (शुष्मी) बलवान् (आसदम्) सर्वत्र व्याप्तोऽस्ति। उपासकाः (दक्षिणा) उपासनारूपां दक्षिणां (सृज्यते) परमात्मानं समर्पयति। (जागृविः) जागरणशीलः परमात्मा (द्रुहः रक्षसः) द्रोहकारिराक्षसान्निहत्य सज्जनान् (पाति) रक्षति। अथ च (चम्वोः) द्यावाभूमी (निर्णिजे) पुष्णाति। (हरिः) पापहारकः (ब्रह्म) परमात्मा (नभः) अन्तरिक्षलोकं (पयः) परमाणुपुञ्जेन (उपस्तिरे) आच्छादयति। तथा (ओपशम्) सर्वावकाशदमन्तरिक्षलोकं (कृणुते) स परमात्मैव करोति ॥१॥

    इस भाष्य को एडिट करें
    Top