Loading...
ऋग्वेद मण्डल - 9 के सूक्त 76 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 76/ मन्त्र 2
    ऋषिः - कविः देवता - पवमानः सोमः छन्दः - विराड्जगती स्वरः - निषादः

    शूरो॒ न ध॑त्त॒ आयु॑धा॒ गभ॑स्त्यो॒: स्व१॒॑: सिषा॑सन्रथि॒रो गवि॑ष्टिषु । इन्द्र॑स्य॒ शुष्म॑मी॒रय॑न्नप॒स्युभि॒रिन्दु॑र्हिन्वा॒नो अ॑ज्यते मनी॒षिभि॑: ॥

    स्वर सहित पद पाठ

    शूरः॑ । न । ध॒त्ते॒ । आयु॑धा । गभ॑स्त्योः । स्वरिति॑ स्वः॑ । सिसा॑सन् । र॒थि॒रः । गोऽइ॑ष्टिषु । इन्द्र॑स्य । शुष्म॑म् । ई॒रय॑न् । अ॒प॒स्युऽभिः॑ । इन्दुः॑ । हि॒न्वा॒नः । अ॒ज्य॒ते॒ । म॒नी॒षिऽभिः॑ ॥


    स्वर रहित मन्त्र

    शूरो न धत्त आयुधा गभस्त्यो: स्व१: सिषासन्रथिरो गविष्टिषु । इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभि: ॥

    स्वर रहित पद पाठ

    शूरः । न । धत्ते । आयुधा । गभस्त्योः । स्व१रिति स्वः । सिसासन् । रथिरः । गोऽइष्टिषु । इन्द्रस्य । शुष्मम् । ईरयन् । अपस्युऽभिः । इन्दुः । हिन्वानः । अज्यते । मनीषिऽभिः ॥ ९.७६.२

    ऋग्वेद - मण्डल » 9; सूक्त » 76; मन्त्र » 2
    अष्टक » 7; अध्याय » 3; वर्ग » 1; मन्त्र » 2

    पदार्थः -
    (इन्दुः) सर्वप्रकाशकः परमेश्वरः (मनीषिभिः) ज्ञानयोगिभिः (अज्यते) साक्षात्क्रियते। तथा (अपस्युभिः) कर्मयोगिभिः (हिन्वानः) प्रेर्यमाणः अथ च (इन्द्रस्य) कर्मयोगिनः (शुष्मम्) बलं (ईरयन्) प्रेरयन् (शूरः न) शूर इव (गभस्त्योः) स्वकीयकर्मरूप-ज्ञानरूपशक्त्योः (आयुधा) सृष्टेः करणोपकरणरूपाण्यायुधानि (धत्त) दधाति। (स्वः) सुखस्वरूपः परमात्मा (गविष्टिषु) प्रजासु (सिषासन्) सम्भक्तुमिच्छया (रथिरः) गतिस्वरूपः स परमात्मा स्वकीयगत्या सर्वत्र परिपूर्णो भवति ॥२॥

    इस भाष्य को एडिट करें
    Top