ऋग्वेद - मण्डल 9/ सूक्त 76/ मन्त्र 3
इन्द्र॑स्य सोम॒ पव॑मान ऊ॒र्मिणा॑ तवि॒ष्यमा॑णो ज॒ठरे॒ष्वा वि॑श । प्र ण॑: पिन्व वि॒द्युद॒भ्रेव॒ रोद॑सी धि॒या न वाजाँ॒ उप॑ मासि॒ शश्व॑तः ॥
स्वर सहित पद पाठइन्द्र॑स्य । सो॒म॒ । पव॑मानः । ऊ॒र्मिणा॑ । त॒वि॒ष्यमा॑णः । ज॒ठरे॑षु । आ । वि॒श॒ । प्र । नः॒ । पि॒न्व॒ । वि॒ऽद्युत् । अ॒भ्राऽइ॑व । रोद॑सी॒ इति॑ । धि॒या । न । वाजा॑न् । उप॑ । मा॒सि॒ । शश्व॑तः ॥
स्वर रहित मन्त्र
इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश । प्र ण: पिन्व विद्युदभ्रेव रोदसी धिया न वाजाँ उप मासि शश्वतः ॥
स्वर रहित पद पाठइन्द्रस्य । सोम । पवमानः । ऊर्मिणा । तविष्यमाणः । जठरेषु । आ । विश । प्र । नः । पिन्व । विऽद्युत् । अभ्राऽइव । रोदसी इति । धिया । न । वाजान् । उप । मासि । शश्वतः ॥ ९.७६.३
ऋग्वेद - मण्डल » 9; सूक्त » 76; मन्त्र » 3
अष्टक » 7; अध्याय » 3; वर्ग » 1; मन्त्र » 3
अष्टक » 7; अध्याय » 3; वर्ग » 1; मन्त्र » 3
पदार्थः -
(सोम) हे परमात्मन् ! (पवमानः) सर्वान् पवित्रयँस्त्वं (ऊर्मिणा) स्वज्ञानतरङ्गैः (तविष्यमाणः) सर्वस्याभ्युदयमिच्छन् (इन्द्रस्य) कर्मयोगिनः (जठरेषु) अन्तःकरणेषु (आविश) आगत्य विराजस्व। अथ च (विद्युत्) विद्युत् (अभ्रेव) यथा मेघान् प्रकाशयति तथा (रोदसी) द्यावापृथिव्यौ वर्द्धयति। तथा (नः) अस्मान् (प्रपिन्व) वर्द्धय। अथ च (धिया) कर्मभिः (वाजान्) बलानि (न) साम्प्रतं (शश्वतः) निरन्तरम् (उपमासि) निर्मिमीषे ॥३॥