ऋग्वेद - मण्डल 9/ सूक्त 76/ मन्त्र 4
विश्व॑स्य॒ राजा॑ पवते स्व॒र्दृश॑ ऋ॒तस्य॑ धी॒तिमृ॑षि॒षाळ॑वीवशत् । यः सूर्य॒स्यासि॑रेण मृ॒ज्यते॑ पि॒ता म॑ती॒नामस॑मष्टकाव्यः ॥
स्वर सहित पद पाठविश्व॑स्य । राजा॑ । प॒व॒ते॒ । स्वः॒ऽदृशः॑ । ऋ॒तस्य॑ । धी॒तिम् । ऋ॒षि॒षाट् । अ॒वी॒व॒श॒त् । यः । सूर्य॑स्य । असि॑रेण । मृ॒ज्यते॑ । पि॒ता । म॒ती॒नाम् । अस॑मष्टऽकाव्यः ॥
स्वर रहित मन्त्र
विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिमृषिषाळवीवशत् । यः सूर्यस्यासिरेण मृज्यते पिता मतीनामसमष्टकाव्यः ॥
स्वर रहित पद पाठविश्वस्य । राजा । पवते । स्वःऽदृशः । ऋतस्य । धीतिम् । ऋषिषाट् । अवीवशत् । यः । सूर्यस्य । असिरेण । मृज्यते । पिता । मतीनाम् । असमष्टऽकाव्यः ॥ ९.७६.४
ऋग्वेद - मण्डल » 9; सूक्त » 76; मन्त्र » 4
अष्टक » 7; अध्याय » 3; वर्ग » 1; मन्त्र » 4
अष्टक » 7; अध्याय » 3; वर्ग » 1; मन्त्र » 4
पदार्थः -
(विश्वस्य राजा) समस्तसंसारस्य प्रभुः परमात्मा (पवते) अस्मान् पवित्रयति (ऋतस्य) सत्यवक्तुः कर्मयोगिनः (स्वर्दृशः) सुखज्ञातुः (धीतिम्) कर्म (अवीविशत्) वाञ्छति। स परमात्मा (ऋषिषाट्) सूक्ष्मात्सूक्ष्मतरोऽस्ति। तथा (यः) यः परमेश्वरः (सूर्यस्य) ज्ञानस्य (असिरेण) रश्मिभिः (मृज्यते) साक्षात्क्रियते। अथ च (मतीनाम्) अखिलज्ञानानां (पिता) प्रदाता परमात्मा (असमष्टकाव्यः) वाचामगोचरोऽस्ति ॥४॥