Loading...
ऋग्वेद मण्डल - 9 के सूक्त 76 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 76/ मन्त्र 5
    ऋषिः - कविः देवता - पवमानः सोमः छन्दः - निचृज्जगती स्वरः - निषादः

    वृषे॑व यू॒था परि॒ कोश॑मर्षस्य॒पामु॒पस्थे॑ वृष॒भः कनि॑क्रदत् । स इन्द्रा॑य पवसे मत्स॒रिन्त॑मो॒ यथा॒ जेषा॑म समि॒थे त्वोत॑यः ॥

    स्वर सहित पद पाठ

    वृषा॑ऽइव । यू॒था । परि॑ । कोश॑म् । अ॒र्ष॒सि॒ । अ॒पाम् । उ॒पऽस्थे॑ । वृ॒ष॒भः । कनि॑क्रदत् । सः । इन्द्रा॑य । प॒व॒से॒ । म॒त्स॒रिन्ऽत॑मः । यथा॑ । जेषा॑म । स॒म्ऽइ॒थे । त्वाऽऊ॑तयः ॥


    स्वर रहित मन्त्र

    वृषेव यूथा परि कोशमर्षस्यपामुपस्थे वृषभः कनिक्रदत् । स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे त्वोतयः ॥

    स्वर रहित पद पाठ

    वृषाऽइव । यूथा । परि । कोशम् । अर्षसि । अपाम् । उपऽस्थे । वृषभः । कनिक्रदत् । सः । इन्द्राय । पवसे । मत्सरिन्ऽतमः । यथा । जेषाम । सम्ऽइथे । त्वाऽऊतयः ॥ ९.७६.५

    ऋग्वेद - मण्डल » 9; सूक्त » 76; मन्त्र » 5
    अष्टक » 7; अध्याय » 3; वर्ग » 1; मन्त्र » 5

    पदार्थः -
    (त्वोतयः) भवता सुरक्षिता वयं (यथा) येन प्रकारेण (समिथे) सङ्ग्रामे (जेषाम) जयेम तथा भवान् करोतु। (सः) सः (मत्सरिन्तमः) आनन्ददायकस्त्वं (इन्द्राय) कर्मयोगिने (पवसे) पवित्रयसि। (वृषा) कामनावर्षकाणां (यूथेव) समूह इव (कोशम्) ऐश्वर्यस्य कोषं (पर्यर्षसि) प्राप्नोषि। यथा (अपामुपस्थे) जलाभिमुखं (वृषभः) मेघमण्डलं (कनिक्रदत्) शब्दं कृत्वा प्राप्नोति तद्वत् ॥५॥ इति षट्सप्ततितमं सूक्तं प्रथमो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top