Loading...
ऋग्वेद मण्डल - 9 के सूक्त 77 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 77/ मन्त्र 1
    ऋषिः - कविः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः

    ए॒ष प्र कोशे॒ मधु॑माँ अचिक्रद॒दिन्द्र॑स्य॒ वज्रो॒ वपु॑षो॒ वपु॑ष्टरः । अ॒भीमृ॒तस्य॑ सु॒दुघा॑ घृत॒श्चुतो॑ वा॒श्रा अ॑र्षन्ति॒ पय॑सेव धे॒नव॑: ॥

    स्वर सहित पद पाठ

    ए॒षः । प्र । कोशे॑ । मधु॑ऽमान् । अ॒चि॒क्र॒द॒त् । इन्द्र॑स्य । वज्रः॑ । वपु॑षः । वपुः॑ऽतरः । अ॒भि । ई॒म् । ऋ॒तस्य॑ । सु॒ऽदुघाः॑ । घृ॒त॒ऽश्चुतः॑ । वा॒श्राः । अ॒र्ष॒न्ति॒ । पय॑साऽइव । धे॒नवः॑ ॥


    स्वर रहित मन्त्र

    एष प्र कोशे मधुमाँ अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः । अभीमृतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनव: ॥

    स्वर रहित पद पाठ

    एषः । प्र । कोशे । मधुऽमान् । अचिक्रदत् । इन्द्रस्य । वज्रः । वपुषः । वपुःऽतरः । अभि । ईम् । ऋतस्य । सुऽदुघाः । घृतऽश्चुतः । वाश्राः । अर्षन्ति । पयसाऽइव । धेनवः ॥ ९.७७.१

    ऋग्वेद - मण्डल » 9; सूक्त » 77; मन्त्र » 1
    अष्टक » 7; अध्याय » 3; वर्ग » 2; मन्त्र » 1

    पदार्थः -
    (वाश्राः) शबदवत्यः (धेनवः) वाण्यः याः (पयसेव) जलप्रवाह इव (अभ्यर्षन्ति) अभिगच्छन्ति ताः (ईम्) अस्य (ऋतस्य) सत्यस्य (सुदुघाः) दोग्ध्र्यः सन्ति। तथा (घृतश्चुतः) माधुर्यदात्र्यः सन्ति। (एषः) उक्तः परमेश्वरः (कोशे) अन्तःकरणे (मधुमान्) आनन्दस्वरूपेण वर्तमानः सन् (प्राचिक्रदत्) साक्षित्वेनोपदिशति। स (वपुष्टरः) सर्वेषामादिबीजमस्ति। तथा (इन्द्रस्य) कर्मयोगिनः (वपुषः) शरीरस्य (वज्रः) वज्रोऽस्ति ॥१॥

    इस भाष्य को एडिट करें
    Top