Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 19/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - ईश्वरः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुनिवारण सूक्त
यो नः॒ स्वो यो अर॑णः सजा॒त उ॒त निष्ट्यो॒ यो अ॒स्माँ अ॑भि॒दास॑ति। रु॒द्रः श॑र॒व्य॑यै॒तान्ममा॒मित्रा॒न्वि वि॑ध्यतु ॥
स्वर सहित पद पाठय: । न॒ :। स्व: । य: । अर॑ण: । स॒ऽजा॒त: । उ॒त । निष्ट्य॑: । य: । अ॒स्मान् । अभिऽदास॑ति ।रु॒द्र: । श॒र॒व्यया । ए॒तान् । मम॑ । अ॒मित्रा॑न् । वि । वि॒ध्य॒तु॒ ॥
स्वर रहित मन्त्र
यो नः स्वो यो अरणः सजात उत निष्ट्यो यो अस्माँ अभिदासति। रुद्रः शरव्ययैतान्ममामित्रान्वि विध्यतु ॥
स्वर रहित पद पाठय: । न :। स्व: । य: । अरण: । सऽजात: । उत । निष्ट्य: । य: । अस्मान् । अभिऽदासति ।रुद्र: । शरव्यया । एतान् । मम । अमित्रान् । वि । विध्यतु ॥
अथर्ववेद - काण्ड » 1; सूक्त » 19; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−स्वः। स्वन शब्दे−ड। ज्ञातिः। अरणः। वशिरण्योरप्युपसंख्यानम्। वार्तिकम्, पा० ३।३।५८। इति रण शब्दे-कर्मणि अप्। नञ्समासः। अरणीयः, असंभाष्यः। विदेशी जनः। शत्रुः। सजातः। १।९।३। समान-जन्मा, स्वकुटुम्बी। निष्ट्यः। अव्ययात् त्यप्। पा० ४।२।१०४। अत्र। निसो गते। इति वार्तिकेन। निस्-त्यप् गतार्थे। ह्रस्वात् तादौ तद्धिते। पा० ८।३।१०१। इति षत्वम्। निर्गतो वर्णाश्रमेभ्यो यः। चाण्डालः, म्लेच्छः। अस्मान्। आज्ञाकारिणो धार्मिकान्। अभिदासति। दसु उत्क्षेपे, लेट् उत्क्षिपेत्। अस्माँ अभिदासति। दीर्घादटि समानपादे। पा० ८।३।९। इति संहितायां नकारस्य रुत्वम्। आतोऽटि नित्यम्। पा० ८।३।३। इति आकारस्य अनुनासिकः। रुद्रः। रोदेर्णिलुक् च। उ० २।२२। इति रुदिर् अश्रुविमोचने, ण्यन्ताद् रक् प्रत्ययः, णिलुक् च। रोदयति शत्रूनिति। महाशूरः। सेनापतिः। शरव्यया। म० १। पाशादिभ्यो यः। पा० ४।२।४९। इति शरु−य प्रत्ययः समूहार्थे। ओर्गुणः। पा० ६।४।१४६। इति गुणः। वान्तो यि प्रत्यये। पा० ६।१।७९। इति अव् आदेशः। टाप् च्। इति शरव्या तया शरसंहत्या। अमित्रान्। म० २। हिंसकान् शत्रून्। विध्यतु। म० २। विशेषेण छिनत्तु भिनत्तु ॥
इस भाष्य को एडिट करें