Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 19/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - ईश्वरः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
यः स॒पत्नो॒ यो ऽस॑पत्नो॒ यश्च॑ द्वि॒षन्छपा॑ति नः। दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥
स्वर सहित पद पाठय: । स॒ऽपत्न॑: । य: । अस॑पत्न: । य: । च॒ । द्वि॒षन् । शपा॑ति । न॒: । दे॒वा: । तम् । सर्वे॑ । धू॒र्व॒न्तु॒ । ब्रह्म॑ । वर्म॑ । मम॑ । अन्त॑रम् ॥
स्वर रहित मन्त्र
यः सपत्नो यो ऽसपत्नो यश्च द्विषन्छपाति नः। देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥
स्वर रहित पद पाठय: । सऽपत्न: । य: । असपत्न: । य: । च । द्विषन् । शपाति । न: । देवा: । तम् । सर्वे । धूर्वन्तु । ब्रह्म । वर्म । मम । अन्तरम् ॥
अथर्ववेद - काण्ड » 1; सूक्त » 19; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−सपत्नः। १।९।२। प्रतियोगी, शत्रुः। असपत्नः। अशत्रुः, अप्रकटशत्रुः। द्विषन्। द्विष अप्रीतौ-शतृ। द्वेषं कुर्वन्। शपाति। शप आक्रोशे लेट्। शपेत्। देवाः। दीप्यमानाः। विजयिनः। शूराः। धूर्वन्तु। धुर्वी हिंसायाम्। हिंसन्तु। नाशयन्तु। ब्रह्म। १।१०।४। परमेश्वरः। वर्म। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति वृञ्−मनिन् वृणोति आच्छादयति शरीरमिति। तनुत्रम्, सर्वथा रक्षकम्। अन्तरम्। यदन्ते समीपे रमते। अन्त+रम−ड। अन्तरात्मा। आभ्यन्तरं मध्ये भवम् ॥
इस भाष्य को एडिट करें