Loading...
अथर्ववेद > काण्ड 1 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 20/ मन्त्र 1
    सूक्त - अथर्वा देवता - सोमो मरुद्गणः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनिवारण सूक्त

    अदा॑रसृद्भवतु देव सोमा॒स्मिन्य॒ज्ञे म॑रुतो मृ॒डता॑ नः। मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद्वृजि॒ना द्वेष्या॒ या ॥

    स्वर सहित पद पाठ

    अदा॑रऽसृत् । भ॒व॒तु॒ । दे॒व॒ । सो॒म॒ । अ॒स्मिन् । य॒ज्ञे । म॒रु॒त॒: । मृ॒डत॑ । न॒: । मा । न॒: । वि॒द॒त् । अ॒भि॒ऽभा: । मो इति॑ । अश॑स्ति: । मा । न॒: । वि॒द॒त् । वृ॒जि॒ना । द्वेष्या॑ । या ॥


    स्वर रहित मन्त्र

    अदारसृद्भवतु देव सोमास्मिन्यज्ञे मरुतो मृडता नः। मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥

    स्वर रहित पद पाठ

    अदारऽसृत् । भवतु । देव । सोम । अस्मिन् । यज्ञे । मरुत: । मृडत । न: । मा । न: । विदत् । अभिऽभा: । मो इति । अशस्ति: । मा । न: । विदत् । वृजिना । द्वेष्या । या ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 20; मन्त्र » 1

    टिप्पणीः - १−अदारसृत्। दारजारौ कर्तरि णिलुक् च। वार्तिकम्। पा० ३।३।२०। इति दॄ विदारणे−णिच्−घञ्। णिलुक् च। सृ गतौ−णिचि क्विप्। दारं दरं भयं सारयतीति दारसृत्। न दारसृत् अदारसृत् अभयप्रापकः, अहानिकरः। अथवा दारयन्ति दुःखानि विदारयन्ति यास्ताः स्त्रियः। स्त्र्यादिगृहस्थाः। दार+सृ−क्विप्। अगृहगामी। देव। हे दीप्यमान ! सोम। १।६।२। हे सर्वोत्पादक परमेश्वर ! यज्ञे। १।९।४। पूज्यकर्मणि यागे, अध्वरे। मरुतः। मृग्रोरुतिः। उ० १।९४। इति मृञ् प्राणत्यागे−उति। मारयन्ति नाशयन्ति दुष्टान् दुर्गन्धादिदुर्गुणान् वा ते मरुतः, देवाः। वायुः। ऋत्विजः−निघ० ३।१८। मरुत् हिरण्यनाम−निघ० १।२। हे शूरवीरा देवाः। मृडत। मृड सुखने−लोट् मृडयत, सुखयत। नः। अस्मान् [त्रिवारं वर्तते] मा विदत्। १।१९।१। विद्लृ लाभे−लुङ्। मा लभताम्, मा प्राप्नोतु। अभि-भाः। अभि, धर्षणे, आभिमुख्ये वा+भा दीप्तौ−क्विप्। अभिभूय भाति दीप्यते। अभिभाः=अभिभूतिः−निरु० ८।४। परोपद्रवः। आपत्तिः। मो। मा-उ। मैव। अशस्तिः। शंसु स्तुतौ−क्तिन्। अकीर्त्तिः। वृजिना। वृजेः किच्च। उ० २।४७। इति वृजी वर्जने−इनच् स च कित्, टाप्। यद्वा। अर्शआदिभ्योऽच्। पा० ५।२।१२७। इति वृजन−अस्त्यर्थे अच् टाप् च। वृजनं पापमस्यामस्तीति वृजना। वक्रा, कुटिला, पाप−बुद्धिः। द्वेष्या। ऋहलोर्ण्यत्। पा० ३।१।१२४। इति द्विष अप्रीतौ−कर्मणि ण्यत्। द्वेषणीया, अप्रीता ॥

    इस भाष्य को एडिट करें
    Top