Loading...
अथर्ववेद > काण्ड 1 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 20/ मन्त्र 4
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनिवारण सूक्त

    शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रसा॒हो अ॑स्तृ॒तः। न यस्य॑ ह॒न्यते॒ सखा॒ न जी॒यते॑ क॒दा च॒न ॥

    स्वर सहित पद पाठ

    शा॒स: । इ॒त्था । म॒हान् । अ॒सि॒ । अ॒मि॒त्र॒ऽस॒ह: । अ॒स्तृ॒त: ।न । यस्य॑ । ह॒न्यते॑ । सखा॑ । न । जी॒यते॑ । क॒दा । च॒न ॥


    स्वर रहित मन्त्र

    शास इत्था महाँ अस्यमित्रसाहो अस्तृतः। न यस्य हन्यते सखा न जीयते कदा चन ॥

    स्वर रहित पद पाठ

    शास: । इत्था । महान् । असि । अमित्रऽसह: । अस्तृत: ।न । यस्य । हन्यते । सखा । न । जीयते । कदा । चन ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 20; मन्त्र » 4

    टिप्पणीः - ४−शासः। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। पा० ३।१।१३४। इति शासु अनुशिष्टौ−पचाद्यच्। चितः। पा० ६।१।१६३। इति अन्तोदात्तः। शासकः, नियन्ता, वरुणः। इत्था। सत्यनाम, निघ० ३।१०। सत्यम्। महान्। १।१०।४। सर्वोत्कृष्टः। महाँ असि। इत्यत्र संहितायाम्। दीर्घादटि समानपादे। पा० ८।३।९। इति नकारस्य रुत्वम्। आतोऽटि नित्यम्। पा० ८।३।३। इति अकारस्य अनुनासिकः। अमित्र-सहः। अमेर्द्विषति चित्। उ० ४।१७४। इति अम रोगे पीडने−इत्रच्। षह अभिभवे−पचाद्यच्। चितः। पा०। ६।१।१६३। इति अन्तोदात्तः। अमित्राणां शत्रूणां सोढा, अभिभविता। अस्तृतः। स्तृञ् हिंसायाम्−कर्मणि क्तः। अहिंसितः। न। निषेधे। यस्य। वरुणस्य। हन्यते। सार्वधातुके यक्। पा० ३।१।६७। इति कर्मणि यक्। हिंस्यते। अभिभूयते। सखा। समाने ख्यः स चोदात्तः। उ० ४।१३७। इति समान+ख्या प्रसिद्धौ कथने च−इन्। टिलोपयलोपौ समानस्य सभावश्च। अनङ् सौ। पा० ७।१।९३। इति अनङ्। मित्रम्, सुहृद्। जीयते। जि जये−पूर्ववद् यक्। अभिभूयते। कदा। कस्मिन् काले। चन। अपि ॥

    इस भाष्य को एडिट करें
    Top