Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 20/ मन्त्र 3
इ॒तश्च॒ यद॒मुत॑श्च॒ यद्व॒धं व॑रुण यावय। वि म॒हच्छर्म॑ यच्छ॒ वरी॑यो यावया व॒धम् ॥
स्वर सहित पद पाठइ॒त: । च॒ । यत् । अ॒मुत॑: । च॒ । यत् । व॒धम् । व॒रु॒ण॒ । य॒व॒य॒ । वि । म॒हत् । शर्म॑ । य॒च्छ॒ । वरी॑य: । य॒व॒य॒ । व॒धम् ॥
स्वर रहित मन्त्र
इतश्च यदमुतश्च यद्वधं वरुण यावय। वि महच्छर्म यच्छ वरीयो यावया वधम् ॥
स्वर रहित पद पाठइत: । च । यत् । अमुत: । च । यत् । वधम् । वरुण । यवय । वि । महत् । शर्म । यच्छ । वरीय: । यवय । वधम् ॥
अथर्ववेद - काण्ड » 1; सूक्त » 20; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−इतः। पञ्चम्यास्तसिल्। पा० ५।३।७। इति इदम्−तसिल्। अस्मात् स्थानात्। अमुतः। अदस्−तसिल् पूर्ववत्। तस्माद् देशात्। यत् यत्। इति अव्ययद्वयम्। प्रत्येकं वधं यः कश्चिद् भवेद् इत्यर्थे। वधम्। म० २। शस्त्रप्रहारम्। वरुण। १।३।३। हे वरणीय, परमेश्वर ! यावय। म० २। वियोजय। महत्। १।१०।४। विपुलं विस्तीर्णम्। शर्म। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति शॄ हिंसायाम्−मनिन्। स्वशरणम्, सुखम्। वि। विशेषेण। यच्छ। पाघ्राध्मास्थाम्ना०। पा० ७।३।७८। इति दाण्−दाने−यच्छादेशः। देहि। वरीयः। १।२।२। उरुतरम् विस्तीर्णतरम्, दूरतरम् ॥
इस भाष्य को एडिट करें