Loading...
अथर्ववेद > काण्ड 1 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 20/ मन्त्र 2
    सूक्त - अथर्वा देवता - मित्रावरुणौ छन्दः - अनुष्टुप् सूक्तम् - शत्रुनिवारण सूक्त

    यो अ॒द्य सेन्यो॑ व॒धो ऽघा॒यूना॑मु॒दीर॑ते। यु॒वं तं मि॑त्रावरुणाव॒स्मद्या॑वयतं॒ परि॑ ॥

    स्वर सहित पद पाठ

    य: । अ॒द्य । सेन्य॑: । व॒ध: । अ॒घ॒ऽयूना॑म् । उ॒त्ऽईर॑ते । यु॒वम् । तम् । मि॒त्रा॒व॒रु॒णौ॒ । अ॒स्मत् । य॒व॒य॒त॒म् । परि॑ ॥


    स्वर रहित मन्त्र

    यो अद्य सेन्यो वधो ऽघायूनामुदीरते। युवं तं मित्रावरुणावस्मद्यावयतं परि ॥

    स्वर रहित पद पाठ

    य: । अद्य । सेन्य: । वध: । अघऽयूनाम् । उत्ऽईरते । युवम् । तम् । मित्रावरुणौ । अस्मत् । यवयतम् । परि ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 20; मन्त्र » 2

    टिप्पणीः - २−अद्य। १।१।१। वर्तमाने दिने। सेन्यः। भवे छन्दसि। पा० ४।४।११०। इति सेना−यत्। सेनायां भवः। वधः। हनश्च वधः। पा० ३।३।६७। इति हन हिंसागत्योः−अप्, वधादेशः। हननसाधनः, शस्त्रप्रहारः। अघायूनाम्। अघ पापकरणे−अच्। अघम्, पापम्। सुप आत्मनः क्यच्। पा० ३।१।८। इत्यत्र। छन्दसि परेच्छायामपि वक्तव्यम्। वार्त्तिकम्। इति अघ−क्यच्। क्याच्छन्दसि। पा० ३।२।१७०। इति उ प्रत्ययः। अश्वाघस्यात्। पा० ७।४।३७। इति आत्वम्। पापेच्छूनाम्। दुराचारिणाम्। उत्−ईरते। ईर गतौ। उद्गच्छति, उत्तिष्ठति। युवम्। युवाम्। मित्रावरुणौ। १।३।२, ३। मित्रश्च वरुणश्च। देवता द्वन्दे च। पा० ६।३।२९। इति पूर्वपदस्य आनङ् आदेशः। प्राणापानौ। यावयतम्। यु मिश्रणामिश्रणयोः−ण्यन्तात् लोट्। वियोजयतम्, पृथक् कुरुतम्।

    इस भाष्य को एडिट करें
    Top