अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 6
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
स तांल्लो॒कान्त्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः। हिर॑ण्यज्योतिषं कृ॒त्वा यो ददा॑ति श॒तौद॑नाम् ॥
स्वर सहित पद पाठस: । तान् । लो॒कान् । सम् । आ॒प्नो॒ति॒ । ये । दि॒व्या: । ये । च॒ । पार्थि॑वा: । हिर॑ण्यऽज्योतिषम् । कृ॒त्वा । य: । ददा॑ति । श॒तऽओ॑दनाम् ॥९.६॥
स्वर रहित मन्त्र
स तांल्लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः। हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ॥
स्वर रहित पद पाठस: । तान् । लोकान् । सम् । आप्नोति । ये । दिव्या: । ये । च । पार्थिवा: । हिरण्यऽज्योतिषम् । कृत्वा । य: । ददाति । शतऽओदनाम् ॥९.६॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(सः) (तान्) प्रसिद्धान् (लोकान्) दर्शनीयान् जनान् (सम्) सम्यक् (आप्नोति) प्राप्नोति (ये) जनाः (दिव्याः) दिवु व्यवहारे-क्यप्। व्यवहारकुशलाः (ये) (च) (पार्थिवाः) सर्वभूमिपृथिवीभ्यामणञौ। पा० ५।१।४१। पृथिवी-अञ्। सार्वभौमाः। चक्रवर्तिनः (हिरण्यज्योतिषम्) हिरण्यस्य सुवर्णस्य वीर्यस्य पराक्रमस्य वा ज्योतिः प्रकाशो यया। ताम्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें