Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 27
    सूक्त - अथर्वा देवता - शतौदना (गौः) छन्दः - पञ्चपदातिजागतानुष्टुब्गर्भा शक्वरी सूक्तम् - शतौदनागौ सूक्त

    अ॒पो दे॒वीर्मधु॑मतीर्घृत॒श्चुतो॑ ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक्सा॑दयामि। यत्का॑म इ॒दम॑भिषि॒ञ्चामि॑ वो॒ऽहं तन्मे॒ सर्वं॒ सं प॑द्यतां व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

    स्वर सहित पद पाठ

    अ॒प: । दे॒वी: । मधु॑ऽमती: । घृ॒त॒ऽश्चुत॑: । ब्र॒ह्माणा॑म् । हस्ते॑षु । प्र॒ऽपृ॒थक् । सा॒द॒या॒मि॒ । यत्ऽका॑म: । इ॒दम् । अ॒भि॒ऽसि॒ञ्चामि॑ । व॒: । अ॒हम् । तत् । मे॒ । सर्व॑म् । सम् । प॒द्य॒ता॒म् । व॒यम् । स्या॒म॒ । पत॑य: । र॒यी॒णाम् ॥९.२७॥


    स्वर रहित मन्त्र

    अपो देवीर्मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक्सादयामि। यत्काम इदमभिषिञ्चामि वोऽहं तन्मे सर्वं सं पद्यतां वयं स्याम पतयो रयीणाम् ॥

    स्वर रहित पद पाठ

    अप: । देवी: । मधुऽमती: । घृतऽश्चुत: । ब्रह्माणाम् । हस्तेषु । प्रऽपृथक् । सादयामि । यत्ऽकाम: । इदम् । अभिऽसिञ्चामि । व: । अहम् । तत् । मे । सर्वम् । सम् । पद्यताम् । वयम् । स्याम । पतय: । रयीणाम् ॥९.२७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 27

    टिप्पणीः - २७−(अपः) व्यापनशीला वेदविद्याः (देवीः) विजयिनीः (मधुमतीः) ब्रह्मज्ञानेन युक्ताः (घृतश्चुतः) अ० ३।३३।४। सारतत्त्वस्राविणीः (ब्रह्मणाम्) वेदज्ञानम् (हस्तेषु) (प्रपृथक्) अ० ६।१२२।५। नानाप्रकारेण (सादयामि) स्थापयामि (यत्कामः) यत्पदार्थं कामयमानः (इदम्) इदानीम् (अभिषिञ्चामि) अभिषिक्तान् करोमि (वः) युष्मान् (अहम्) (तत्) (मे) मह्यम् (सर्वम्) (सम् पद्यताम्) सम्पन्नं साधितं भवतु (वयम्) (स्याम) (पतयः) स्वामिनः (रयीणाम्) नानाधनानाम् ॥

    इस भाष्य को एडिट करें
    Top