अथर्ववेद - काण्ड 15/ सूक्त 11/ मन्त्र 3
सूक्त - अध्यात्म अथवा व्रात्य
देवता - निचृत् आर्ची बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
यदे॑न॒माह॒व्रात्य॒ क्वावात्सी॒रिति॑ प॒थ ए॒व तेन॑ देव॒याना॒नव॑ रुन्द्धे ॥
स्वर सहित पद पाठयत् । ए॒न॒म् । आह॑ । व्रात्य॑ । क्व᳡ । अ॒वा॒त्सी॒: । इति॑ । प॒थ: । ए॒व । तेन॑ । दे॒व॒ऽयाना॑न् । अव॑ । रु॒न्ध्दे॒ ॥११.३॥
स्वर रहित मन्त्र
यदेनमाहव्रात्य क्वावात्सीरिति पथ एव तेन देवयानानव रुन्द्धे ॥
स्वर रहित पद पाठयत् । एनम् । आह । व्रात्य । क्व । अवात्सी: । इति । पथ: । एव । तेन । देवऽयानान् । अव । रुन्ध्दे ॥११.३॥
अथर्ववेद - काण्ड » 15; सूक्त » 11; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यत्) यदा (एनम्) अतिथिम् (आह) ब्रूते (पथः) मार्गान् (एव)निश्चयेन (तेन) सत्कारेण (देवयानान्) विद्वद्भिर्गन्तव्यान् (अव रुन्द्धे)आत्मने सुरक्षति। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें