अथर्ववेद - काण्ड 16/ सूक्त 4/ मन्त्र 6
सूक्त - आदित्य
देवता - आर्ची उष्णिक्
छन्दः - ब्रह्मा
सूक्तम् - दुःख मोचन सूक्त
स्व॒स्त्यद्योषसो॑ दो॒षस॑श्च॒ सर्व॑ आपः॒ सर्व॑गणो अशीय ॥
स्वर सहित पद पाठस्व॒स्ति । अ॒द्य: । उ॒षस॑: । दो॒षस॑: । च॒ । सर्व॑: । आ॒प॒: । सर्व॑ऽगण: । अ॒शी॒य॒ ॥४.६॥
स्वर रहित मन्त्र
स्वस्त्यद्योषसो दोषसश्च सर्व आपः सर्वगणो अशीय ॥
स्वर रहित पद पाठस्वस्ति । अद्य: । उषस: । दोषस: । च । सर्व: । आप: । सर्वऽगण: । अशीय ॥४.६॥
अथर्ववेद - काण्ड » 16; सूक्त » 4; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(स्वस्ति) कल्याणेन (अद्य) इदानीम् (उषसः) प्रभातवेलाः (दोषसः)दुष वैकृत्ये-असुन्। रात्रीः (च) (सर्वः) सम्पूर्णोऽहम् (आपः) हे आप्ताविद्वांसः (सर्वगणः) सर्वेष्टमित्रप्रजादिसहितः (अशीय) बहुलं छन्दसि। पा०२।३।७३। अश्नुतेः शपो लुकि लिङ्युत्तमैकवचने रूपम्। प्राप्नुयाम् ॥
इस भाष्य को एडिट करें