अथर्ववेद - काण्ड 19/ सूक्त 13/ मन्त्र 2
आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षनीनाम्। सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तं सेना॑ अजयत्सा॒कमिन्द्रः॑ ॥
स्वर सहित पद पाठआ॒शुः। शिशा॑नः। वृ॒ष॒भः। न। भी॒मः। घ॒ना॒घ॒नः। क्षोभ॑णः। च॒र्ष॒णी॒नाम्। स॒म्ऽक्रन्द॑नः। अ॒नि॒ऽमि॒षः। ए॒क॒ऽवी॒रः। श॒तम्। सेनाः॑। अ॒ज॒य॒त्। सा॒कम्। इन्द्रः॑ ॥१३.२॥
स्वर रहित मन्त्र
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षनीनाम्। संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥
स्वर रहित पद पाठआशुः। शिशानः। वृषभः। न। भीमः। घनाघनः। क्षोभणः। चर्षणीनाम्। सम्ऽक्रन्दनः। अनिऽमिषः। एकऽवीरः। शतम्। सेनाः। अजयत्। साकम्। इन्द्रः ॥१३.२॥
अथर्ववेद - काण्ड » 19; सूक्त » 13; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह मन्त्र ऋग्वेद में है−१०।१०३।१, यजुर्वेद १७।३३ और सामवेद उ० ९।३।१ ॥ २−(आशुः) शीघ्रकारी (शिशानः) शो तनूकरणे−कानच्। तीक्ष्णस्वभावः (वृषभः) बलीवर्दः (न) इव (भीमः) भयङ्करः (घनाघनः) हन्तेर्घत्वं च। वा० पा० ६।१।१२। हन हिंसागत्योः-अचि प्रत्यये घत्वमभ्यासस्यागागमश्च। अतिशयेन प्रहर्ता (क्षोभणः) संचालयिता (चर्षणीनाम्) मनुष्याणाम् (संक्रन्दनः) शत्रूणामाह्वाता (अनिमिषः) अनिमेषचक्षुः। सदा सावधानः (एकवीरः) अद्वितीयशूरः (शतम्) असंख्याः (सेनाः) (अजयत्) जितवान् (साकम्) सार्धम् (इन्द्रः) महाप्रतापी सेनापतिः ॥
इस भाष्य को एडिट करें