अथर्ववेद - काण्ड 19/ सूक्त 13/ मन्त्र 9
इन्द्र॑ एषां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑। दे॑वसे॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ यन्तु॒ मध्ये॑ ॥
स्वर सहित पद पाठइन्द्रः॑। ए॒षा॒म्। ने॒ता। बृह॒स्पतिः॑। दक्षि॑णा। य॒ज्ञः। पु॒रः। ए॒तु॒। सोमः॑। दे॒व॒ऽसे॒नाना॑म्। अ॒भि॒ऽभ॒ञ्ज॒ती॒नाम्। जय॑न्तीनाम्। म॒रुतः॑। य॒न्तु॒। मध्ये॑ ॥१३.९॥
स्वर रहित मन्त्र
इन्द्र एषां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः। देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ॥
स्वर रहित पद पाठइन्द्रः। एषाम्। नेता। बृहस्पतिः। दक्षिणा। यज्ञः। पुरः। एतु। सोमः। देवऽसेनानाम्। अभिऽभञ्जतीनाम्। जयन्तीनाम्। मरुतः। यन्तु। मध्ये ॥१३.९॥
अथर्ववेद - काण्ड » 19; सूक्त » 13; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१०३।८, यजु०१७।४० और साम०, उ०९।३।३॥९−(इन्द्रः) परमैश्वर्ययुक्तो मुख्यसेनापतिः (एषाम्) वीराणाम् (नेता) नायकः (बृहस्पतिः) बृहतामधिकाराणां रक्षकः सेनानायकः (दक्षिणा) दक्षिण-आच्। दक्षिणाहस्तदिशायाम् (यज्ञः) पूजनीयः (पुरः) अग्रे (एतु) गच्छतु (सोमः) प्रेरकाः सेनाध्यक्षः (देवसेनानाम्) विजिगीषूणां सेनानाम् (अभिभञ्जतीनाम्) सर्वतो मर्दयन्तीनाम् (जयन्तीनाम्) तॄभूवहिवसि०। उ०३।१२८। जि जये-झच्, ङीष् गौरादित्वात्। विजयिनीनाम्, (मरुतः) अ०१।२०।१। मृग्रोरुतिः। उ०१।९४। मृङ्, प्राणत्यागे-उति। मारयन्ति शत्रून् ये शूरपुरुषाः (यन्तु) गच्छन्तु (मध्ये)॥
इस भाष्य को एडिट करें