अथर्ववेद - काण्ड 19/ सूक्त 34/ मन्त्र 2
सूक्त - अङ्गिराः
देवता - जङ्गिडो वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - जङ्गिडमणि सूक्त
या गृत्स्य॑स्त्रिपञ्चा॒शीः श॒तं कृ॑त्या॒कृत॑श्च॒ ये। सर्वा॑न्विनक्तु॒ तेज॑सोऽर॒सान् ज॑ङ्गि॒डस्क॑रत् ॥
स्वर सहित पद पाठयाः। गृत्स्यः॑। त्रि॒ऽप॒ञ्चा॒शीः। श॒तम्। कृ॒त्या॒ऽकृतः॑। च॒। ये। सर्वा॑न्। वि॒न॒क्तु॒। तेज॑सः। अ॒र॒सान्। ज॒ङ्गि॒डः। क॒र॒त् ॥३४.२॥
स्वर रहित मन्त्र
या गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये। सर्वान्विनक्तु तेजसोऽरसान् जङ्गिडस्करत् ॥
स्वर रहित पद पाठयाः। गृत्स्यः। त्रिऽपञ्चाशीः। शतम्। कृत्याऽकृतः। च। ये। सर्वान्। विनक्तु। तेजसः। अरसान्। जङ्गिडः। करत् ॥३४.२॥
अथर्ववेद - काण्ड » 19; सूक्त » 34; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(याः) (गृत्स्यः) गृध्रिपण्योर्दकौ च। उ०३।६९। गृधु अभिकाङ्क्षायाम्-स प्रत्ययः, कित् धस्य दः, ङीप्। गर्धनशीलाः पीडाः (त्रिपञ्चाशीः) पूरणार्थे डट्। टित्वाद् ङीप्। त्रिवारं पञ्चाशतसंख्याकाः। असंख्याः (कृत्याकृतः) कृती छेदने-क्यप्, टाप्+करोतेः-क्विप्। उपद्रवकर्तारो रोगाः (च) (ये) (सर्वान्) समस्तान् रोगान् (विनक्तु) विचिर् पृथग्भावे। पृथक् करोतु (तेजसः) प्रभावात् (अरसान्) नीरसान्। निष्प्रभावान् (जङ्गिडः) म०१। जङ्गमः। संचारकः (करत्) कुर्यात् ॥
इस भाष्य को एडिट करें