अथर्ववेद - काण्ड 19/ सूक्त 34/ मन्त्र 10
सूक्त - अङ्गिराः
देवता - जङ्गिडो वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - जङ्गिडमणि सूक्त
आश॑रीकं॒ विश॑रीकं ब॒लासं॑ पृष्ट्याम॒यम्। त॒क्मानं॑ वि॒श्वशा॑रदमर॒सान् ज॑ङ्गि॒डस्क॑रत् ॥
स्वर सहित पद पाठआऽश॑रीकम्। विऽश॑रीकम्। ब॒लास॑म्। पृ॒ष्टि॒ऽआ॒म॒यम्। त॒क्मान॑म्। वि॒श्वऽशा॑रदम्। अ॒र॒सान्। ज॒ङ्गि॒डः। क॒र॒त् ॥३४.१०॥
स्वर रहित मन्त्र
आशरीकं विशरीकं बलासं पृष्ट्यामयम्। तक्मानं विश्वशारदमरसान् जङ्गिडस्करत् ॥
स्वर रहित पद पाठआऽशरीकम्। विऽशरीकम्। बलासम्। पृष्टिऽआमयम्। तक्मानम्। विश्वऽशारदम्। अरसान्। जङ्गिडः। करत् ॥३४.१०॥
अथर्ववेद - काण्ड » 19; सूक्त » 34; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(आशरीकम्) कषिदूषिभ्यामीकन्। उ०४।१६। आङ्+शॄ हिंसायाम्-ईकन्। सम्यक् शरीरस्य मर्दनशीलम् (विशरीकम्) विशेषेण शरीरस्य खण्डयितारम् (बलासम्) अ०४।९।८। बल+असु क्षेपणे-अण्। बलस्य क्षेप्तारम्। सन्निपातश्लेष्मविकारम् (पृष्ट्यामयम्) अ०२।७।५। पृषु सेचने क्तिच्। पृष्टेः पर्श्वस्थ्नो वक्षःस्थलस्य वा आमयं रोगम् (तक्मानम्) अ०१।२५।१। तकि कृच्छ्रजीवने-मनिन्। कृच्छ्रजीवनकारिणं ज्वरम् (विश्वशारदम्) अ०९।८।६। शार दौर्बल्ये-अच्, यद्वा शॄ हिंसायाम्-घञ्+ददातेः-क प्रत्ययः। सर्वस्मिन् शरीरे कर्बुरवर्णं ददातीति तम् (अरसान्) निष्प्रभावान् (जङ्गिडः) म०१। औषधविशेषः (करत्) कुर्यात् ॥
इस भाष्य को एडिट करें