अथर्ववेद - काण्ड 19/ सूक्त 46/ मन्त्र 5
सूक्त - प्रजापतिः
देवता - अस्तृतमणिः
छन्दः - पञ्चपदातिजगती
सूक्तम् - अस्तृतमणि सूक्त
अ॒स्मिन्म॒णावेक॑शतं वी॒र्याणि स॒हस्रं॑ प्रा॒णा अ॑स्मि॒न्नस्तृ॑ते। व्या॒घ्रः शत्रू॑न॒भि ति॑ष्ठ॒ सर्वा॒न्यस्त्वा॑ पृतन्या॒दध॑रः॒ सो अ॒स्त्वस्तृ॑तस्त्वा॒भि र॑क्षतु ॥
स्वर सहित पद पाठअस्मि॑न्। म॒णौ। एक॑ऽशतम्। वी॒र्या᳡णि। स॒हस्र॑म्। प्रा॒णाः। अ॒स्मि॒न्। अस्तृ॑ते। व्या॒घ्रः। शत्रू॑न्। अ॒भि। ति॒ष्ठ॒। सर्वा॑न्। यः। त्वा॒। पृ॒त॒न्यात्। अध॑रः। सः। अ॒स्तु॒। अस्तृ॑तः। त्वा॒। अ॒भि। र॒क्ष॒तु॒ ॥४६.५॥
स्वर रहित मन्त्र
अस्मिन्मणावेकशतं वीर्याणि सहस्रं प्राणा अस्मिन्नस्तृते। व्याघ्रः शत्रूनभि तिष्ठ सर्वान्यस्त्वा पृतन्यादधरः सो अस्त्वस्तृतस्त्वाभि रक्षतु ॥
स्वर रहित पद पाठअस्मिन्। मणौ। एकऽशतम्। वीर्याणि। सहस्रम्। प्राणाः। अस्मिन्। अस्तृते। व्याघ्रः। शत्रून्। अभि। तिष्ठ। सर्वान्। यः। त्वा। पृतन्यात्। अधरः। सः। अस्तु। अस्तृतः। त्वा। अभि। रक्षतु ॥४६.५॥
अथर्ववेद - काण्ड » 19; सूक्त » 46; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(अस्मिन्) पूर्वनिर्दिष्टे (मणौ) प्रशंसनीये (एकशतम्) एकोत्तरं शतम्। असंख्यानि (वीर्याणि) वीरकर्माणि (सहस्रम्) बहवः (प्राणाः) जीवनसामर्थ्यानि (अस्मिन्) वीप्सायां द्विर्वचनम्। अस्मिन्नेव (अस्तृते) म० १। अहिंसिते नियमे (व्याघ्रः) वि+आङ्+घ्रा गन्धोपादाने-क। सिंहो व्याघ्र इति पूजायाम्, व्याघ्रो व्याघ्राणाद् व्यादाय हन्तीति वा-निरु० ३।१८। व्याघ्र इव शत्रुगन्धं विशेषेण आजिघ्रन् (शत्रून्) रिपून् (अभितिष्ठ) आक्रमेण प्राप्नुहि। अभिभव (सर्वान्) समस्तान् (यः) शत्रुः (त्वा) (पृतन्यात्) योद्धुमिच्छेत् (अधरः) निकृष्टः (सः) (अस्तु) अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें