अथर्ववेद - काण्ड 19/ सूक्त 53/ मन्त्र 1
का॒लो अश्वो॑ वहति स॒प्तर॑श्मिः सहस्रा॒क्षो अ॒जरो॒ भूरि॑रेताः। तमा रो॑हन्ति क॒वयो॑ विप॒श्चित॒स्तस्य॑ च॒क्रा भुव॑नानि॒ विश्वा॑ ॥
स्वर सहित पद पाठका॒लः। अश्वः॑। व॒ह॒ति॒। स॒प्तऽर॑श्मिः। स॒ह॒स्र॒ऽअ॒क्षः। अ॒जरः॑। भूरि॑ऽरेताः। तम्। आ। रो॒ह॒न्ति॒। क॒वयः॑। वि॒पः॒चितः॑। तस्य॑। च॒क्रा। भुव॑नानि। विश्वा॑ ॥५३.१॥
स्वर रहित मन्त्र
कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः। तमा रोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥
स्वर रहित पद पाठकालः। अश्वः। वहति। सप्तऽरश्मिः। सहस्रऽअक्षः। अजरः। भूरिऽरेताः। तम्। आ। रोहन्ति। कवयः। विपःचितः। तस्य। चक्रा। भुवनानि। विश्वा ॥५३.१॥
अथर्ववेद - काण्ड » 19; सूक्त » 53; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(कालः) कल संख्याने प्रेरणे च-ण्यन्तात् पचाद्यच्। कालयति संख्याति सर्वान् पदार्थानिति। समयः। परमेश्वरः (अश्वः) अशू व्याप्तौ-क्वन्। अशनो व्यापनः सर्वभूतानां परमेश्वरः। व्यापनो मार्गस्य वा तुरङ्गः (वहति) गच्छति (सप्तरश्मिः) अश्नोतेरश्च। उ० ४।४६। अशू व्याप्तौ-मिप्रत्ययः, धातोरशादेशः। शुक्लनीलपीतादिकिरणयुक्तः सूर्यवत् प्रकाशमानः (सहस्राक्षः) बहुलोचनः। अमितदर्शनसामर्थ्यः (अजरः) जरारहितः। नित्ययुवा (भूरिरेताः) प्रभूतवीर्यः (तम्) (आ रोहन्ति) अधितिष्ठन्ति (कवयः) ज्ञानिनः (विपश्चितः) मेधाविनः (तस्य) कालस्य (चक्रा) चक्राणि। भ्रमणस्थानानि (भुवनानि) सत्तायुक्तानि भूतजातानि (विश्वानि) सर्वाणि ॥
इस भाष्य को एडिट करें