अथर्ववेद - काण्ड 19/ सूक्त 57/ मन्त्र 5
सूक्त - यमः
देवता - दुःष्वप्ननाशनम्
छन्दः - त्र्यवसाना पञ्चपदा पराशाक्वरातिजगती
सूक्तम् - दुःस्वप्नानाशन सूक्त
अ॑नास्मा॒कस्तद्दे॑वपी॒युः पिया॑रुर्नि॒ष्कमि॑व॒ प्रति॑ मुञ्चताम्। नवा॑र॒त्नीनप॑मया अ॒स्माकं॒ ततः॒ परि॑। दुः॒ष्वप्न्यं॒ सर्वं॑ द्विष॒ते निर्द॑यामसि ॥
स्वर सहित पद पाठअ॒ना॒स्मा॒कः। तत्। दे॒व॒ऽपी॒युः। पिया॑रुः। नि॒ष्कम्ऽइ॑व। प्रति॑। मु॒ञ्च॒ता॒म्। नव॑। अ॒र॒त्नीन्। अप॑ऽमयाः। अ॒स्माक॑म्। ततः॑। परि॑। दुः॒ऽस्वप्न्य॑म्। सर्व॑म्। द्वि॒ष॒ते। निः। द॒या॒म॒सि॒ ॥५७.५॥
स्वर रहित मन्त्र
अनास्माकस्तद्देवपीयुः पियारुर्निष्कमिव प्रति मुञ्चताम्। नवारत्नीनपमया अस्माकं ततः परि। दुःष्वप्न्यं सर्वं द्विषते निर्दयामसि ॥
स्वर रहित पद पाठअनास्माकः। तत्। देवऽपीयुः। पियारुः। निष्कम्ऽइव। प्रति। मुञ्चताम्। नव। अरत्नीन्। अपऽमयाः। अस्माकम्। ततः। परि। दुःऽस्वप्न्यम्। सर्वम्। द्विषते। निः। दयामसि ॥५७.५॥
अथर्ववेद - काण्ड » 19; सूक्त » 57; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(अनास्माकः) म० ४। योऽस्माकं न भवति सः (तत्) दुःष्वप्न्यम् (देवपीयुः) म० ४। विदुषां हिंसकः (पियारुः) म० ४। दुःखप्रदः (निष्कम्) सुवर्णम् (इव) यथा (प्रति मुञ्चताम्) धारयतु (नव) (अरत्नीन्) अ+ऋ गतौ-कत्नि, रत्निर्बद्धमुष्टिकरः स नास्ति यत्र। विस्तृतकनिष्ठाङ्गुलिमुष्टिकहस्तप्रमाणानि (अपमयाः) मय गतौ भ्वादिः, लेट् णिजर्थः। अपगमयेः (अस्माकम्) (ततः) तस्मात् स्थानात् (परि) पृथग्भावे (दुःष्वप्न्यम्) दुष्टस्वप्नभावम् (सर्वम्) (द्विषते) शत्रवे (निः दयामसि) दय दानगतिरक्षणहिंसादानेषु। अपगमयामः बहिष्कुर्मः ॥
इस भाष्य को एडिट करें