Loading...
अथर्ववेद > काण्ड 2 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 3
    सूक्त - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    इ॒दमि॑न्द्र शृणुहि सोमप॒ यत्त्वा॑ हृ॒दा शोच॑ता॒ जोह॑वीमि। वृ॒श्चामि॒ तं कुलि॑शेनेव वृ॒क्षं यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑ ॥

    स्वर सहित पद पाठ

    इ॒दम् । इ॒न्द्र॒ । शृ॒णु॒हि॒ । सो॒म॒ऽप॒ । यत् । त्वा॒ । हृ॒दा । शोच॑ता । जोह॑वीमि । वृ॒श्चामि॑ । तम् । कुलि॑शेनऽइव । वृ॒क्षम् । य: । अ॒स्माक॑म् । मन॑: । इ॒दम् । हि॒नस्ति॑ ॥१२.३॥


    स्वर रहित मन्त्र

    इदमिन्द्र शृणुहि सोमप यत्त्वा हृदा शोचता जोहवीमि। वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥

    स्वर रहित पद पाठ

    इदम् । इन्द्र । शृणुहि । सोमऽप । यत् । त्वा । हृदा । शोचता । जोहवीमि । वृश्चामि । तम् । कुलिशेनऽइव । वृक्षम् । य: । अस्माकम् । मन: । इदम् । हिनस्ति ॥१२.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 3

    टिप्पणीः - ३–इदम् म० २। वक्ष्यमाणं वाक्यम्। इन्द्र। हे परमैश्वर्यवन् परमात्मन् ! शृणुहि। उतश्च प्रत्ययादित्यत्र छन्दसि। वेति वक्तव्यम्। वा० पा० ६।४।१०६। इति हेरलुक्। शृणु। सोमप। अर्त्तिस्तुसुहुसृधृक्षि०। उ० १।१४०। इति षु गतौ। ऐश्वर्यप्रसवयोश्च–मन्। सवति ऐश्वर्यहेतुर्भवतीति सोमः। आतोऽनुपसर्गे कः। पा० ३।२।३। इति सोम+पा रक्षणे पाने वा–क। हे सोमस्य ऐश्वर्यस्य रक्षक ! यद्वा। अमृतस्य मोक्षसुखस्य पानशील रक्षक वा ! यत्। यतः। यस्मात् कारणात्। त्वा। त्वामिन्द्रम्। हृदा। हृञ् हरणे–क्विप्। तुक् च। हृदयेन। मनसा। शोचता। शुच शोके–शतृ। शोकार्तेन। दुःखितेन। जोहवीमि। ह्वेञ् आह्वाने–यङ्लुगन्तात् लडुत्तमैकवचने। ह्वः सम्प्रसारणम् पा० ६।१।३२। अभ्यस्तस्य च। पा० ६।१।३३। इति सम्प्रसारणम्। पुनः पुनराह्वयामि। वृश्चामि। ओव्रश्चू छेदने। तुदादित्वात् शः। छिनद्मि। कुलिशेन। कुल बन्धे संहतौ च–इन्, किच्च। कुलिः=हस्तः। यद्वा। कुल अस्त्यर्थे इनि। कुली पर्वतः। कुलौ हरते शेते वर्तते, शीङ् शयने–ड। यद्वा। कुलिनं संहतिवन्तं पर्वतं पर्ववन्तम् अतिदृढं श्यति, शो तनूकरणे–ड। वज्रेण। वृक्षम्। स्नुव्रश्चिकृत्यृषिभ्यः कित्। उ० ३।६६। इति ओव्रश्चू छेदने–स प्रत्ययः। स च कित्। यद्वा। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति वृक्ष स्वीकरणे–कः। वृश्चति परिश्रमम्। यद्वा। वृक्षते स्वीकरोति श्रान्तं जनं स वृक्षः। विटपम्। पादपम्। अन्यद् व्याख्यातम् ॥

    इस भाष्य को एडिट करें
    Top