अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 5
सूक्त - भरद्वाजः
देवता - पितरः सौम्यः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
द्यावा॑पृथिवी॒ अनु॒ मा दी॑धीथां॒ विश्वे॑ देवासो॒ अनु॒ मा र॑भध्वम्। अङ्गि॑रसः॒ पित॑रः॒ सोम्या॑सः पा॒पमार्छ॑त्वपका॒मस्य॑ क॒र्ता ॥
स्वर सहित पद पाठद्यावा॑पृथिवी॒ इति॑ । अनु॑ । मा॒ । आ । दी॒धी॒था॒म् । विश्वे॑ । दे॒वा॒स॒: । अनु॑ । मा॒ । आ । र॒भ॒ध्व॒म् । अङ्गि॑रस: । पित॑र: । सोम्या॑स: । पा॒पम् । आ । ऋ॒च्छ॒तु॒ । अ॒प॒ऽका॒मस्य॑ । क॒र्ता ॥१२.५॥
स्वर रहित मन्त्र
द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम्। अङ्गिरसः पितरः सोम्यासः पापमार्छत्वपकामस्य कर्ता ॥
स्वर रहित पद पाठद्यावापृथिवी इति । अनु । मा । आ । दीधीथाम् । विश्वे । देवास: । अनु । मा । आ । रभध्वम् । अङ्गिरस: । पितर: । सोम्यास: । पापम् । आ । ऋच्छतु । अपऽकामस्य । कर्ता ॥१२.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५–द्यावापृथिवी। मा० १। हे सूर्यभूमी। सर्वे पदार्थाः। अनु। अनुर्लक्षणे। पा० १।४।८४। इति अनोः कर्मप्रवचनीयता। कर्मप्रवचनीययुक्ते द्वितीया। पा० २।३।८। इति मा इत्यस्य द्वितीया। अनुलक्ष्य। मा। माम्। दीधीथाम्। दीधीङ् दीप्तिदेवनयोः–लोट्, अदादित्वात् शपो लुक्। दीप्येताम्। विश्वे। सर्वे। देवासः। जसि असुगागमः। हे देवाः। महात्मानः। आ+रभध्वम्। रभ राभस्ये=उत्सुकीभावे–लोट्। उत्सुका भवत। उद्युक्ता भवत–इति सायणाचार्यः। अङ्गिरसः। म० ४। हे ज्ञानिनः। महर्षयः। पितरः। म० ४। हे पालकाः। पितृवत् सत्करणीयाः। सोम्यासः। तस्मै हितम्। पा० ५।१।५। इति यत्। आज्जसेरसुक्। पा० ७।१।५। इति असुक्। हे सोम्याः। सोमाय ऐश्वर्याय हिताः। मनोहराः। प्रियदर्शनाः। पापम्। पानीविषिभ्यः पः। उ० ३।२३। इति पा रक्षणे–प प्रत्ययः। पाति रक्षति अस्मादात्मानमिति। अधर्मम्। पातकम्। दुःखम्। आ+ऋच्छतु। आर्च्छतु। ऋच्छ गतौ। उपसर्गादृति धातौ। पा० ६।१।९३। इति गुणापवादे वृद्धिः। प्राप्नोतु। अपकामस्य। अप नञर्थे+कम इच्छायाम्–घञ्। अनिष्टस्य। अपकारस्य। अत्याचारस्य। कर्ता। कृञ्–तृच्। कारकः। प्रयोजकः ॥
इस भाष्य को एडिट करें