अथर्ववेद - काण्ड 2/ सूक्त 17/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - प्राणः, अपानः, आयुः
छन्दः - एदपदासुरीत्रिष्टुप्
सूक्तम् - बल प्राप्ति सूक्त
ओजो॒ऽस्योजो॑ मे दाः॒ स्वाहा॑ ॥
स्वर सहित पद पाठओज॑: । अ॒सि॒ । ओज॑: । मे॒ । दा॒: । स्वाहा॑ ॥१७.१॥
स्वर रहित मन्त्र
ओजोऽस्योजो मे दाः स्वाहा ॥
स्वर रहित पद पाठओज: । असि । ओज: । मे । दा: । स्वाहा ॥१७.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 17; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १–ओजः। अ० १।१२।१। ओज बले, तेजसि–असुन्। बलम्। प्रकाशः। वैद्यके रसादिसप्तधातुसारजधातुविशेषः शरीरस्य बलपुष्टिकारणम्। ज्ञानेन्द्रियाणां पाटवम्। मे। मह्यम्। दाः। त्वं दद्याः, देयाः ॥
इस भाष्य को एडिट करें