Loading...
अथर्ववेद > काण्ड 2 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 2/ मन्त्र 5
    सूक्त - मातृनामा देवता - गन्धर्वाप्सरसः छन्दः - भुरिगनुष्टुप् सूक्तम् - भुवनपति सूक्त

    याः क्ल॒न्दास्तमि॑षीचयो॒ऽक्षका॑मा मनो॒मुहः॑। ताभ्यो॑ गन्ध॒र्वभ्यो॑ ऽप्स॒राभ्यो॑ऽकरं॒ नमः॑ ॥

    स्वर सहित पद पाठ

    या: । क्ल॒न्दा: । तमि॑षीचय: । अ॒क्षऽका॑मा: । म॒न॒:ऽमुह॑:। ताभ्य॑: । ग॒न्ध॒र्वऽप॑त्नीभ्य: । अ॒प्स॒राभ्य॑: । अ॒क॒र॒म् । नम॑: ॥२.५॥


    स्वर रहित मन्त्र

    याः क्लन्दास्तमिषीचयोऽक्षकामा मनोमुहः। ताभ्यो गन्धर्वभ्यो ऽप्सराभ्योऽकरं नमः ॥

    स्वर रहित पद पाठ

    या: । क्लन्दा: । तमिषीचय: । अक्षऽकामा: । मन:ऽमुह:। ताभ्य: । गन्धर्वऽपत्नीभ्य: । अप्सराभ्य: । अकरम् । नम: ॥२.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 2; मन्त्र » 5

    टिप्पणीः - ५–क्लन्दाः। क्लदि आह्वाने रोदने च–पचाद्यच्। टाप्। आवाहनशीलाः। तमिषीचयः। तमि–षिचयः। सर्वधातुभ्य इन्। उ० ४।११८। इति तमु इच्छायां खेदे च–इन्। इगुपधात् कित्। उ० ४।१२०। इति षिच सेचने–इन्, किति ह्रस्वः। छान्दसो दीर्घः। तमिम् इच्छां सिञ्चन्ति तास्तमिसिचयः। इच्छापूरयित्र्यः। अक्षकामाः। अक्षू व्याप्तौ, संहतौ–पचाद्यच्। यद्वा। अशेर्देवने। उ० ३।६५। इति अशू व्याप्तौ–स प्रत्ययः। अक्षो व्यवहारः। यथा, अक्षदर्शकः, अक्षदृक्=व्यवहारनिर्णेता, न्यायकर्त्ता। काम्यतेऽसौ। कमु स्पृहायाम्–कर्मणि घञ्। अक्षेषु व्यवहारेषु सत्कर्मसु कामोऽभिलाषो याभ्यस्तास्तथाभूताः। व्यवहारोत्साहिन्यः। मनोमुहः। मनस्+मुह वैचित्ये–क्विप्। मनसः, चित्तस्य मोहयित्र्यः, आश्चर्ये विस्मये कर्त्र्यः। गन्धर्वपत्नीभ्यः। विभाषा सपूर्वस्य पा० ४।१।३४। इति गन्धर्व+पति–नकारङीपौ। गन्धर्वः पूर्वोक्तः परमात्मा पतिः, रक्षकः, स्वामी यासां ताभ्यः। गन्धर्वेण परमेश्वरेण रक्षिताभ्यः। अप्सराभ्यः। मन्त्रे ३। आकाशप्राणादिषु वर्त्तमानाभ्यः। अकरम्। डुकृञ् करणे–लुङ्। कृमृदृरुहिभ्यश्छन्दसि। पा० ३।१।५९। इति च्लेः अङ् आदेशः। ऋदृशोऽङि गुणः। पा० ७।४।१६। इति गुणः। अहं कृतवान्। नमः। सत्कारम् ॥

    इस भाष्य को एडिट करें
    Top