अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 1
सूक्त - अङ्गिराः
देवता - भैषज्यम्, आयुः, धन्वन्तरिः
छन्दः - अनुष्टुप्
सूक्तम् - आस्रावभेषज सूक्त
अ॒दो यद॑व॒धाव॑त्यव॒त्कमधि॒ पर्व॑तात्। तत्ते॑ कृणोमि भेष॒जं सुभे॑षजं॒ यथास॑सि ॥
स्वर सहित पद पाठअ॒द: । यत् । अ॒व॒ऽधाव॑ति । अ॒व॒त्ऽकम् । अधि॑ । पर्व॑तात् । तत् । ते॒ । कृ॒णो॒मि॒ । भे॒ष॒जम् । सुऽभे॑षजम् । यथा॑ । अस॑सि ॥३.१॥
स्वर रहित मन्त्र
अदो यदवधावत्यवत्कमधि पर्वतात्। तत्ते कृणोमि भेषजं सुभेषजं यथाससि ॥
स्वर रहित पद पाठअद: । यत् । अवऽधावति । अवत्ऽकम् । अधि । पर्वतात् । तत् । ते । कृणोमि । भेषजम् । सुऽभेषजम् । यथा । अससि ॥३.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १–अदः। न दस्यते उत्क्षिप्यतेऽङ्गुलिर्यत्र इदन्तया। न+दसु–उत्क्षेपे–क्विप्। अनुत्क्षेपणीयम्। पुरोवर्त्ति। विप्रकृष्टम्। यत्। त्यजितनियजिभ्यो डित्। उ० १।१३२। इति यज–अदिः, स च डित्। यजति सर्वैः पदार्थैः सह सङ्गतं भवतीति। यजनीयं संगन्तव्यम्। प्रसिद्धम्। ब्रह्मणो नाम–इति दयानन्दः–उणादिकोषव्याख्यायाम्। अव–धावति। पाघ्राध्मास्थाम्ना०। पा० ७।३।७८। इति सृधातोः धौ इत्यादेशः शीघ्रगमने। अवरुह्य शीघ्रं सरति गच्छति। अवत्कम्। अव–अत्कम्। इण्भीकापाशल्यतिमर्चिभ्यः कन्। उ० ३।४३। इति अव+अत सातत्यगमने–कन्। शकन्ध्वादिषु पररूपं वक्तव्यम्। वा० पा० ६।१।९४। इति पररूपम्। अवातति खन्यमानमधोगच्छति। जलप्रवाहः। अवतः कूपनाम–निघ० ३।२३। पर्वतात्। अ० १।१२।३। शैलात्। तत्। त्यजितनियजिभ्यो डित्। उ० १।१३२। इति तनु उपकृतौ विस्तृतौ च–आदः, डित्। तनोति सर्वं, यद्वा, तन्यते सर्वत्र। ब्रह्मणो नामविशेषः। विस्तीर्णम्। ब्रह्म। भेषजम्। अ० १।४।४। औषधम्। सुभेषजम्। सुः पूजायाम्। पा० १।४।९४। उत्कृष्टमौषधम्। अतिशयितवीर्ययुक्तम्। यथा। येन प्रकारेण। अससि। बहुलं छन्दसि। पा० २।४।७३। इति शपोऽलुक्। असि। भवेः ॥
इस भाष्य को एडिट करें