अथर्ववेद - काण्ड 2/ सूक्त 26/ मन्त्र 1
सूक्त - सविता
देवता - पशुसमूहः
छन्दः - त्रिष्टुप्
सूक्तम् - पशुसंवर्धन सूक्त
ए॒ह य॑न्तु प॒शवो॒ ये प॑रे॒युर्वा॒युर्येषां॑ सहचा॒रं जु॒जोष॑। त्वष्टा॒ येषां॑ रूपधेयानि॒ वेदा॒स्मिन्तान्गो॒ष्ठे स॑वि॒ता नि य॑च्छतु ॥
स्वर सहित पद पाठआ । इ॒ह । य॒न्तु॒ । प॒शव॑: । ये । प॒रा॒ऽई॒यु: । वा॒यु: । येषा॑म् । स॒ह॒ऽचा॒रम् । जु॒जोष॑ । त्वष्टा॑ । येषा॑म् । रू॒प॒ऽधेया॑नि । वेद॑ । अ॒स्मिन् । तान् । गो॒ऽस्थे । स॒वि॒ता । नि । य॒च्छ॒तु॒ ॥२६.१॥
स्वर रहित मन्त्र
एह यन्तु पशवो ये परेयुर्वायुर्येषां सहचारं जुजोष। त्वष्टा येषां रूपधेयानि वेदास्मिन्तान्गोष्ठे सविता नि यच्छतु ॥
स्वर रहित पद पाठआ । इह । यन्तु । पशव: । ये । पराऽईयु: । वायु: । येषाम् । सहऽचारम् । जुजोष । त्वष्टा । येषाम् । रूपऽधेयानि । वेद । अस्मिन् । तान् । गोऽस्थे । सविता । नि । यच्छतु ॥२६.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 26; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १–इह। अत्र गोष्ठे सभायां वा। आ+यन्तु। इण् गतौ। आगच्छन्तु। पशवः। अ० १।१५।२। दृशिर् प्रेक्षणे–कु, पश्यादेशः। पशवः=व्यक्तवाचश्चाव्यक्तवाचश्च–निरु० ११।२९। मनुष्यगवादिप्राणिनः। जीवाः। परा–ईयुः। इण् गतौ–लिट्। विमुखा जग्मुः। वायुः। अ० २।२०।१। पवनः। येषाम्। पशूनाम्। सहचारम्। सह+चर गतौ–घञ्। सङ्गमनम्। जुजोष। जुषी प्रीतिसेवनयोः–लिट्, छन्दसि परस्मैपदम्। जुजुषे। सेवते स्म। त्वष्टा। अ० २।५।६। त्वक्ष तनूकरणे–तृन्। व्यवहारतनूकर्ता। सूक्ष्मदर्शी पुरुषः। रूपधेयानि। भागरूपनामभ्यो धेयः। वार्त्तिकम्। पा० ५।४।२५। नानारूपाणि। विविधस्वभावान्। वेद। विद ज्ञाने–लट्। वेत्ति। जानाति। अस्मिन्। निकटस्थे। गोष्ठे। अ० २।१४।२। गोशालायां सभायाम्। सविता। अ० १।१८।२। पशुप्रेरकः। सभाप्रधानः। नि+यच्छतु। इषुगमियमां छः। पा० ७।३।७७। इति निपूर्वाद् यमेः शपि छत्वम्। नियमयतु नियमे स्थापयतु ॥
इस भाष्य को एडिट करें