अथर्ववेद - काण्ड 2/ सूक्त 26/ मन्त्र 5
सूक्त - सविता
देवता - पशुसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - पशुसंवर्धन सूक्त
आ ह॑रामि॒ गवां॑ क्षी॒रमाहा॑र्षं धा॒न्यं रस॑म्। आहृ॑ता अ॒स्माकं॑ वी॒रा आ पत्नी॑रि॒दमस्त॑कम् ॥
स्वर सहित पद पाठआ । ह॒रा॒मि॒ । गवा॑म् । क्षी॒रम् । आ । अ॒हा॒र्ष॒म् । धा॒न्य᳡म् । रस॑म् । आऽहृ॑ता: । अ॒स्माक॑म् । वी॒रा: । आ । पत्नी॑: । इ॒दम्। अस्त॑कम् ॥२६.५॥
स्वर रहित मन्त्र
आ हरामि गवां क्षीरमाहार्षं धान्यं रसम्। आहृता अस्माकं वीरा आ पत्नीरिदमस्तकम् ॥
स्वर रहित पद पाठआ । हरामि । गवाम् । क्षीरम् । आ । अहार्षम् । धान्यम् । रसम् । आऽहृता: । अस्माकम् । वीरा: । आ । पत्नी: । इदम्। अस्तकम् ॥२६.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 26; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५–आहरामि। आनयामि। गवां क्षीरम्। म० ४। धेनूनां दुग्धम्। आहार्षम्। हृञ् हरणे–लुङ्। आनीतवानस्मि। धान्यम्। म० ३। अन्नम् रसम्। म० ४। शारीरिकधातुम्। आहृताः। आनीताः। वीराः। अ० १।२९।६। पराक्रमिणः पुरुषाः। पत्नीः। अ० २।१२।१। वा छन्दसि। पा० ६।१।१०६। इति पूर्वसवर्णदीर्घः। पत्न्यः। अस्तकम्। हसिमृग्रिण्०। उ० ३।८६। इति अस भुवि, गतिदीप्त्यादानेषु–तन्, स्वार्थे कः। अस्तम्=गृहम्–निघ० ३।४ ॥
इस भाष्य को एडिट करें