अथर्ववेद - काण्ड 2/ सूक्त 27/ मन्त्र 1
सूक्त - कपिञ्जलः
देवता - ओषधिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुपराजय सूक्त
नेच्छत्रुः॒ प्राशं॑ जयाति॒ सह॑मानाभि॒भूर॑सि। प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ॥
स्वर सहित पद पाठन । इत् । शत्रु॑: । प्राश॑म् । ज॒या॒ति॒ । सह॑माना । अ॒भि॒ऽभू: । अ॒सि॒ । प्राश॑म् । प्रति॑ऽप्राश: । ज॒हि॒ । अ॒र॒सान् । कृ॒णु॒ । ओ॒ष॒धे॒ ॥२७.१॥
स्वर रहित मन्त्र
नेच्छत्रुः प्राशं जयाति सहमानाभिभूरसि। प्राशं प्रतिप्राशो जह्यरसान्कृण्वोषधे ॥
स्वर रहित पद पाठन । इत् । शत्रु: । प्राशम् । जयाति । सहमाना । अभिऽभू: । असि । प्राशम् । प्रतिऽप्राश: । जहि । अरसान् । कृणु । ओषधे ॥२७.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 27; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १–न। निषेधे। इत्। अवधारणे। एव। शत्रुः। अ० २।५।३। विपक्षः। प्रतिवादी। प्राशम्। क्विब् वचिप्रच्छिश्रि०। उ० २।५७। इति प्रच्छ ज्ञीप्सायाम्–क्विप्, दीर्घः संप्रसारणाभावश्च। च्छ्वोः शूडनुनासिके च। पा० ६।४।१९। इति च्छस्य शः। प्रष्टारं वादिनं माम्। जयाति। जयतेर्लेटि आडागमः। जयतु। अभिभवतु। सहमाना। अ० २।२५।२। जेत्री। अभिभूः। भुवः संज्ञान्तरयोः। प० ३।२।१७९। इति अभि+भू–क्विप्। अभिभवित्री। प्रति–प्राशः। प्रति+प्रच्छ–कर्तरि क्विप्। न लोकाव्ययनिष्ठाखलर्थतृनाम्। पा० २।३।६९। इति तृन् ग्रहणात्। तद्वाचके क्विपि प्रत्ययेऽपि (प्राशम्) इत्यस्य कर्मत्वम्। प्रतिकूलप्रष्टॄन्। प्रतिवादकान्। जहि। हन हिंसागत्योः–लोट्। नाशय। पराजितान् कुरु। अरसान्। नीरसान्। निर्वीर्यान्। कृणु। कुरु। ओषधे। अ० १।२३।१। उष दाहे–घञ्। ततो धेट् पाने–कि। ओषधय ओषद् धयन्तीति वौषत्येना धयन्तीति वा दोषं धयन्तीति वा–निरु० ९।२७। ओषं दाहं धयति पिबति नाशयतीति ओषधिः। यवादिधान्यम्। रोगनाशकद्रव्यम्। तापनाशिका बुद्धिः। तत्संबुद्धौ ॥
इस भाष्य को एडिट करें