Loading...
अथर्ववेद > काण्ड 2 > सूक्त 27

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 27/ मन्त्र 7
    सूक्त - कपिञ्जलः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - शत्रुपराजय सूक्त

    तस्य॒ प्राशं॒ त्वं ज॑हि॒ यो न॑ इन्द्राभि॒दास॑ति। अधि॑ नो ब्रूहि॒ शक्ति॑भिः प्रा॒शि मामुत्त॑रं कृधि ॥

    स्वर सहित पद पाठ

    तस्य॑ । प्राश॑म् । त्वम् । ज॒हि॒ । य: । न॒: । इ॒न्द्र॒ । अ॒भि॒ऽदास॑ति । अधि॑ । न॒: । ब्रू॒हि॒ । शक्ति॑ऽभि: । प्रा॒शि । माम् । उत्ऽत॑रम् । कृ॒धि॒ ॥२७.७॥


    स्वर रहित मन्त्र

    तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति। अधि नो ब्रूहि शक्तिभिः प्राशि मामुत्तरं कृधि ॥

    स्वर रहित पद पाठ

    तस्य । प्राशम् । त्वम् । जहि । य: । न: । इन्द्र । अभिऽदासति । अधि । न: । ब्रूहि । शक्तिऽभि: । प्राशि । माम् । उत्ऽतरम् । कृधि ॥२७.७॥

    अथर्ववेद - काण्ड » 2; सूक्त » 27; मन्त्र » 7

    टिप्पणीः - ७–तस्य। प्रतिवादिनः। प्राशम्। मं० १। सम्पदादिभ्यः क्विप्। वा० पा० ३।३।९४। इति प्रच्छ जिज्ञासायाम्–भावे क्विप्। प्रश्नम्। अभिदासति। दसु उपक्षये, ण्यन्तात् परस्य शपः। छन्दस्युभयथा। पा० ३।४।११७। इति आर्धधातुकत्वात्। णेरनिटि। पा० ६।४।५१। इति णिलोपः। उपक्षपयति। तिरस्करोति। अधि। अधिकृत्य। नः। अस्मान्। ब्रूहि। कथय। निर्णय। शक्तिभिः। स्वसामर्थ्यैः। प्राशि। पूर्ववद् भावे क्विप्। प्रश्ने। माम्। प्रष्टारम्। सत्यवादिनम्। उत्तरम्। उत् अतिशयेन उद्गतः। उत्–तरप्। ऊर्द्ध्वम्। उत्कृष्टम्। कृधि। श्रुशृणुपॄकृवृभ्यश्छन्दसि। पा० ६।४।१०२। इति हेर्धिरादेशः। कुरु ॥

    इस भाष्य को एडिट करें
    Top